________________
श्रीराजश्री मलयगिरी - या वृत्तिः
।। ६८ ।।
7038738087088
च घण्टानामयमेतद्रूपो वर्णावासो - वर्णकनिवेशः प्रज्ञप्तः, तद्यथा - जम्बूनदमय्यो घण्टा वज्रमय्यो लालाः नानामणिमया घण्टापार्श्वाः तपनीयमय्यः शृङ्खला यासु ता अवलम्बितास्तिष्ठन्ति रजतमय्यो रज्जवः 'ताओ णं घण्टाओ' इत्यादि, ताश्च घण्टा ओघेन- प्रवाहेण स्वरो यासां ता ओघस्वरा मेघस्येवातिदीर्घः स्वरो यासां ता मेघस्वराः हंसस्येव मधुरः स्वरो यासां ता हंसस्वराः, एवं क्रौञ्चस्वराः सिंहस्येव च प्रभूतदेशव्यापी स्वरो यासां ताः सिंहस्वराः एवं दुन्दुभिस्वरा द्वादशविधतूर्यसङ्घातो नन्दिः नन्दिस्वराः नन्दिवत् घोषो - हादो यासां ता नन्दिघोषाः मञ्जुः प्रियः स्वरो यासां ता मजूस्वरा, एवं मञ्जुघोषाः, किं बहुना ?, सुस्वराः सुस्वरघोषाः, 'उरालेण' मित्यादि प्राग्वत् || ' तेसि ण'मित्यादि, तेषां द्वाराणां प्रत्येकमुभयोः पार्श्वयोः द्विघातो नैषेधिक्यां षोडश २ वनमालापरिपाट्यः प्रज्ञप्ताः ताव वनमाला नानाद्रुमाणां नानालतानां च यानि किशलयानि ये च पल्लवास्तैः समाकुलाः - सम्मिश्राः ' छप्पयपरिभुज्जमाणा सोभन्तसस्सिरीया' इति षट्पदैः परिभुज्यमानाः सत्यः शोभमानाः | षट्पदपरिभुज्यमानशोभमानाः अत एव सश्रीकाः 'पासाईया' इत्यादि पदचतुष्टयं प्राग्वत् ।। ' तेसि णं दाराण' मित्यादि, तेषां द्वाराणां प्रत्येकमुभयोः पार्श्वयोरेकैकनैषेधिकीभावेन या द्विधा नैषेधिकी तस्यां षोडश २ प्रकण्डकाः प्रज्ञप्ताः, प्रकण्ठको नाम पीठविशेषः, आह च जीवाभिगममूलटीकाकार:- 'प्रकण्ठौ पीठविशेषा' विति, ते च प्रकण्ठकाः प्रत्येकमर्द्धतृतीयानि योजनशतान्यायामविष्कम्भाभ्यां पञ्चविंशं पञ्चविंशत्यधिकं योजनशतं 'बाहल्येन' पिण्डभावेन 'सववयरामया' इति सर्वात्मना ते प्रकण्ठकाः वज्रमयावज्ररत्नमया, 'अच्छा सण्हा ' इत्यादि विशेषणजातं प्राग्वत्, ' तेसि णं पगंठगाण' मित्यादि, तेषां प्रकण्ठकानां उपरि प्रत्येकं प्रत्येकं - इह एकं प्रति प्रत्येकमित्याभिमुख्ये वर्त्तमानः प्रतिशब्दः समस्यते, ततो वीप्साविवक्षायां द्विर्वचनं, प्रासादावतंसकाः प्रज्ञप्ताः,
Jain Education Internationa
For Personal & Private Use Only
सूर्याभविमानवर्णनं
सू० २८
jainelibrary.org