________________
CHCINE
यावत्करणात् 'निच्चं मउलियाओ निच्चं लवइयाओ निच्च धवइयाओ निच्चं गुच्छियाओ निच्चं जमालयाओ निच्चं जुयलियाओ निच्चं विनमियाओ निच्चं पणमियाओ निच्चं सुविभत्तपिण्डमञ्जरिवडिंसगधराओ निच्चं कुसुमियमउलियलवइयथवइयगुलइयगोच्छियविणमियपणमियसुविभत्तपडिमञ्जरिवडिंसगधरीओ' इति परिगृह्यते, अस्य व्याख्यानं प्राग्वत् , पुनः कथम्भूता इत्याह-'सवरयणामया जाव पडिरूवा' इति, अत्रापि यावत्करणात् 'अच्छा सण्हा' इत्यादिविशेषणसमूहपरिग्रहः, सच प्राग्वद्भावनीयः, 'तेसि णमित्यादि, तेषां तोरणानां पुरतः प्रत्येकं द्वौ द्वौ दिक्सौवस्तिको-दिक्प्रोक्षको ते च सर्वे जाम्बूनदमयाः, कचित्पाठः 'सत्वरयणामया अच्छा'इत्यादि, प्राग्वत् 'तसि णमित्यादि द्वौ द्वौ चन्दनकलशौ प्रज्ञप्ती,वर्णकः चन्दनकलशानां 'वरकमलपइट्ठाणा' इत्यादिरूपः सर्वःप्राक्तनो वक्तव्यः, 'तेसिण'मित्यादि द्वौ द्वौ भृङ्गारौ, तेषामपि कलशानामिव वर्णको वक्तव्यो, नवरं पर्यन्ते 'महयामत्तगयमहामुहागिइसमाणा पन्नत्ता समणाउसो!' इति वक्तव्यं 'मत्तगयमहामुहागिइसमाणा' इति मत्तो यो गजस्तस्य महत्-अतिविशालं यत् मुखं तस्याकृतिः-आकारस्तत्समानाः-तत्सदृशाः प्रज्ञप्ताः, 'तेसि णमित्यादि तेषां तोरणानां पुरतो द्वौ द्वावादर्शको प्रज्ञप्तौ, तेषां चादर्शकानामयमेतद्रूपो वर्णावासो वर्णकनिवेशः प्रज्ञप्तः, तद्यथा-तपनीयमयाः प्रकण्ठकाः-पीठविशेषाः, अङ्कमयानि-अङ्करत्नमयानि मंडलानि यत्र प्रतिबिंबसम्भूतिः 'अणोग्धसियनिम्मलाए' इति अवघर्षणमवघर्षितं भावे क्तप्रत्ययः तस्य निर्मलता-अवघर्षितनिर्मलता भूत्यादिना निर्मार्जनमित्यर्थः अवघर्षितस्याभावो|ऽनवघर्षिता तेन निर्मला अनवधर्षितनिर्मला अनवघर्षितनिर्मलया छायया समनुबद्धा-युक्ताः 'चन्दमण्डलपडिनिकासा' इति चन्द्रमण्डलसदृशाः 'महया महया' अतिशयेन महान्तोऽर्द्धकायसमानाः-काया प्रमाणाः प्रज्ञप्ता हे श्रमण हे आयुष्मन् ! तेसि णमित्यादि तेषां तोरणानां पुरतो वे द्वे वज्रनाभे-वज्रमयो नाभिर्ययोस्ते वज्रनाभे स्थाले प्रज्ञा तानि च स्थालानि तिष्ठन्ति,
Jain Education Tishnal
For Personal & Private Use Only
S
a
nelibrary.org