SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ Jain Education 1 विविधा - विचित्रवर्णा हारा - अष्टादशसरिका अर्द्धहारा-नवसरिकास्तैरुपशोभितः समुदायो येषां तानि तथा 'जाब सिरीए अईव २ उवसोभेमाणा चिट्ठति' इति अत्र यावत्करणादेवं परिपूर्णः पाठो द्रष्टव्यः 'ईसिमप्णोष्णमसंपत्ता पुवावरदाहिणुत्तरागएहिं वाएहिं मंदायं मंदायं एइज्जमाणा पइज्जमाणा पलंबमाणा पझंझमाणा ओरालेण मणुष्णेणं मणहरेणं कष्णमणनिव्वुइकरेणं सद्देणं ते पए से सबओ समंता आपूरेमाणा २ सिरीए अईव २ उवसोभेमाणा चिट्ठति' एतच्च प्रागेव यानविमानवर्णने व्याख्यातमिति न भूयो व्याख्यायते । ' तेसि णं णागदंताण' मित्यादि, तेषां नागदन्तानामुपरि प्रत्येकमन्याः षोडश षोडश नागदन्तपरिपाट्यः प्रज्ञप्ताः ते च नागदन्ता यावत्करणात् 'मुत्ताजालंतरुसियहेमजालगववखजाल खिखिणिघंटाजालपरिखित्ता' इत्यादि प्रागुक्तं सर्व द्रष्टव्यं यावत् गजदन्तसमानाः प्रज्ञप्ता है श्रमण ! हे आयुष्मन् !' तेसु णं णागदंतएसु' । इत्यादि, तेषु नागदन्तकेषु बहूनि रजतमयानि सिककानि प्रज्ञप्तानि तेषु वररजतमयेषु सिक्ककेषु बहवो - बढ्यो वैडूर्यमय्यो - वैरत्नात्मिका धूपघटिका: ' कालागुरुपवरकुंदुरुक्क - तुरुक्क धूवमघमघंते'त्यादि प्राग्वत् नवरं 'घाणमणनिब्बुइ करेण' मिति घ्राणेन्द्रियमनोनिर्वृतिकरेण । ' तेसि ण' मित्यादि, तेषां द्वाराणां प्रत्येकमुभयोः पार्श्वयोरेकैकनैपेथिकीभावेन द्विधातो- द्विप्रकारायां नैषेधिक्यां षोडश पोडश शालभञ्जिकाप रिपाटयः प्रज्ञप्ताः, ताच | शालभञ्जिका लीलया - ललिताङ्गनिवेशरूपया स्थिता लीलास्थिताः, 'सुपइट्टियाओ' इति सुमनोज्ञतया प्रतिष्ठिताः सुप्रतिष्ठिताः 'सुअलंकियाओ' सुष्ठु - अतिशयेन रमणीयतया अलङ्कृताः स्वलङ्कृताः ' णाणाविहरागवसणाओ ' इति नानाविधोनानाप्रकारो रागो येषां तानि नानाविधरागाणि तानि वसनानि-वस्त्राणि यासां तास्तथा 'नानामल्लपिनद्धाओ' इति नानारूपाणि माल्यानि - पुष्पाणि पिनद्धानि - आविद्धानि यासां ता नानामाल्यपिनद्धाः क्तान्तस्य परनिपातः सुखादिदर्शनात्, For Personal & Private Use Only 9785878738383850858050 ainelibrary.org
SR No.600237
Book TitleRajprashniyasutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1925
Total Pages302
LanguageSanskrit
ClassificationManuscript & agam_rajprashniya
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy