SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ श्रीराजमनी मलयगिरीया वृत्तिः ॥ ६४ ॥ Jain Education I 600806806087088 'तेसिणं दाराण' मिति तेषां द्वाराणां प्रत्येकमुभयोः पार्श्वयोरेकैकनै पेधिकीभावेन या द्विधा नैषेधिकी तस्यां प्रत्येकं पोडश षोडश नागदन्तपरिपाट्यः प्रज्ञप्ताः, नागदन्ता - अङ्कुटकाः, ते च नागदन्ता 'मुत्ताजालंतरुसियहेमजालगवक्खजालखिखिणि (घंटा) जाल| परिखित्ता' इति मुक्ताजालानामन्तरेषु यानि उत्सृतानि - लम्बमानानि हेमजालानि - सुवर्णमयदामसमूहा यानि च गवाक्षजालानि - गवाक्षाकृतिरत्नविशेषमालासमूहा यानि च किङ्किणीघटाजालानि - क्षुद्रघण्टासमूहास्तैः परिक्षिप्ताः सर्वतो व्याप्ताः 'अन्भु गया' इति अभिमुखमुद्गताः अग्रिमभागे मनाक् उन्नता इति भावः 'अभिनिसिट्टा ' इति अभिमुखं वहिर्भागाभिमुखं निस्पृष्टानिर्गता अभिनिस्पृष्टा: ' तिरियसुसंपरिग्गहिया' इति तिर्यक् भित्तिप्रदेशैः सुष्ठु - अतिशयेन सम्यक् - मनागप्यचलनेन परिगृहीताः सुसम्परिगृहीताः, 'अहेपन्नगद्धरुवा ' इति अधः - अधस्तनं यत् पन्नगस्य सर्पस्यार्द्धं तस्येव रूपम् - आकारो येषां ते अधः पन्नगार्धरूपाः अधः पन्नगार्द्धवदतिसरला दीर्घाचेति भावः, एतदेव व्याचष्टे - ' पन्नगार्द्ध संस्थान संस्थिताः अधः पन्नगार्द्ध संस्थाना: 'सव्ववयरामया सर्वात्मना वज्रमया 'अच्छा सम्हा' इत्यारभ्य 'जाव पडिरूवा ' इति विशेषणजातं प्राग्वत् 'महया' इति अतिशयेन महान्तो गजदन्तसमाना- गजदन्ताकाराः प्रज्ञप्ता हे श्रमण ! हे आयुष्मन् !! 'तेसु णं णागदंत एसु बहवे किन्हसुतबद्धा' तेषु नागदन्तकेषु बहवः कृष्णसूत्रबद्धा ' वग्घारिय' इति अवलम्विता माल्यदामकलापाः - पुष्पमालासमूहा बहवो नीलसूत्रावलम्बितमाल्यदामकलापा एवं लोहितहारिद्रशुक्कसूत्रबद्धा अपि वाच्याः । 'ते णं दामा' इत्यादि, तानि दामानि 'तवणिज्जलंबूसगा' इति तपनीयः- तपनीयमयो लम्बूसगो-दाम्नामग्रिमभागे मण्डनविशेषो येषां तानि तथा, जाव लंबूसकानि, 'सुवन्नपयरगमंडिया' इति पार्श्वतः सामस्त्येन सुवर्णप्रतरेण - सुवर्णपत्रकेण मण्डितानि सुवणप्रतरमण्डितानि 'नाणाविहमणिरयण विविहहार उवसोहियसमुदया' इति नानारूपाणां मणीनां रत्नानां च For Personal & Private Use Only 838484879858787 सूर्याभाव मानद्वार वर्णनं सू० २७ ॥ ६४ ॥ ainelibrary.org
SR No.600237
Book TitleRajprashniyasutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1925
Total Pages302
LanguageSanskrit
ClassificationManuscript & agam_rajprashniya
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy