________________
मूर्याभविमानद्वार
वर्णन
मू० २७
श्रीराजप्रश्नी 'मुद्विगिज्झसुमज्झाओ' शत मुष्टियार्थ सुष्ट-शोभनं मध्यं-मध्यभागो यासांतास्तथा, 'आमेलगजमलजुगलवट्टियअन्भुन्नयपीमलयगिरी- णरइयसंठियपीवरपओहराओ' पीनं-पीवरं रचितं संस्थितं-संस्थानं यकाभ्यां तौ पीनरचितसंस्थानौ आमेलक:-आपीडः या वृत्तिः
शेखरक इत्यर्थः तस्य यमलयुगलं-समश्रेणिकं ययुगलं तद्वत् वर्तितौ-बद्धस्वभावावुपचितकठिनभावाविति भावः अभ्युन्नती
पीनरचितसंस्थानौ च पयोधरौ यासांतास्तथा, 'रत्तावंगाओ' इति रक्तोऽपाङ्गो-नयनोपान्तरूपो यासां तास्तथा, 'असियकेसिओ ॥६५॥
इति असिताः-कृष्णाः केशा यासां ता असितकेश्यः, एतदेव सविशेषमाचष्टे-'मिउविसयपसत्थलक्खणसंवेल्लियग्गसिरयाओ' मृदवः-कोमला विशदा-निर्मलाः प्रशस्तानि-शोभनानि अस्फुटिताग्रत्वप्रभृतीनि लक्षणानि येषां ते प्रशस्तलक्षणाः 'संवेल्लित' संवृतमग्रं येषां ते संवेल्लितायाः शिरोजाः-केशा यासां ता मृदुविशदप्रशस्तलक्षणसंवेल्लिताग्रशिरोजाः, 'ईसिं असोमवरपायवसमुट्ठियाओ' ईपत्-मनाक् अशोकवरपादपे समुपस्थिताः-आश्रिता ईपदशोकवरपादपसमुपस्थितास्तथा 'वामहत्थग्गहियग्गसालाओ' वामहस्तेन गृहीतमग्रं शालायाः-शाखायाः अर्थादशोकपादपस्य यकाभिस्ता वामहस्तगृहीताग्रशालाः ईसिं अद्धच्छिकडक्खचिट्ठिएणं लूसमाणीओ विवे'ति ईषत्-मनाक् अर्द्ध-तिर्यक् वलितमक्षि येषु कटाक्षरूपेषु चेष्टितेसु तैर्मुष्णन्त्य इव सुरजनानां मनांसि | चक्खुल्लोयणलेसेहिं य अन्नमन्नं खिज्जमाणीओ विव'अन्योऽन्यं परस्परं चक्षुषां लोकनेन-आलोकनेन ये लेशाः-संश्लेषस्तैः खिद्यमाना इव, किमुळं भवति ?-एवंनामानस्ति(म)र्यग्वलिताक्षिकटाक्षैः परस्परमवलोकमाना अवतिष्ठन्ति यथा नूनं परस्परं सौभाग्यासहनतस्तिर्यग्वलिताक्षिकटाक्षः परस्परं खिद्यन्ति इवेति, 'पुढविपरिणामाओ' इति पृथिवीपरिणामरूपाः शाश्वतभावमुपगता विमानवत् 'चंदाणणाओ' इति चन्द्र इवाननं-मुखं यासां तास्तथा 'चंदविलासिणीओ' इति चन्द्रवत् मनोहरं विलसन्तत्यिवंशीलाच
॥६५॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org