SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ सूर्याभविमानद्वार वर्णनं Ho माणत्वाच, 'सवतवणिज्जमया उल्लोया' उल्लोका-उपरिभागाः सर्वतपनीयमयाः-सर्वात्मना तपनीयरूपसुवर्णविशेषमयाः 'नाणाश्रीराजप्रश्नी मणिरयणजालपंजरमणिवंसगलोहियवखपडिवंसगरययभोमा' इति मणयो-मणिमया वंशा येषु तानि मणिमयवंशकानि लोहितामलयमिरी ख्यानि-लोहितारख्यमयाः प्रतिवंशा येषु तानि लोहिताख्यप्रतिवंशकानि रजता-रजतमयी भूमिर्येषां तानि रजतभूमानि प्राकृतया वृत्तिः त्वात्समासान्तः मणिवंशकानि लोहिताख्यप्रतिवंशकानि रजतभूमानि नानामणिरत्नानि-नानामणिरत्नमयानि जालपञ्जराणि॥६२॥ गवाक्षापरपर्यायाणि येषु तानि तथा, पदानामनन्वयोपनिपातः प्राकृतत्वात् , ' अंकामया पक्खा पवखवाहाओ' इति अङ्को-रत्न विशेषस्तन्मयाः पक्षास्तदेकदेशभूताः पक्षवाहवोऽपि तदेकदेशभूता एवाङ्कमय्यः, आह च जीवाभिगममूलटीकाकृत्-"अङ्कमयाः पक्षास्तदेकदेशभूता एवं पक्षबाहवोऽपि द्रष्टव्या" इति, 'जोईरसामया वसा वंसकवेल्लुका य ' इति ज्योतीरसं नाम रत्नं तन्मया वंशाः-महान्तः पृष्ठवंशा 'बंसकवेल्लया य ' इति महतां पृष्ठवंशानामुभयतस्तिर्यक् स्थाप्यमाना वंशाः कवेल्लकानि प्रतीतानि 'रययामईओ पट्टिआओ' इति रजतमय्यः पट्टिका-वंशानामुपरि कम्बास्थानीयाः 'जायरूवमईओ ओहाडणीयो' जातरूपं-सुवर्णविशेषस्तन्मय्यः 'ओहाडणीओ' अवघाटिन्यः आच्छादनहेतुकम्बोपरिस्थाप्यमानमहाप्रमाणीकलिञ्चस्थानीयाः 'वयरामईओ उवरिं पुञ्छणाओ' इति वज्रमय्यो-वज्ररत्नात्मिका अवघाटनीनामुपरि पुन्छन्यो-निबिडतराच्छादनहेतुश्लक्ष्णतरतृणविशेषस्थानीयाः, उक्तं च जीवाभिगममूलटीकाकारेण-"ओहाडणाग्रहणं महत् क्षुल्लकं च पुञ्छना इति" 'सबसेयरययामयाच्छायणे' इति सर्वश्वेतं रजतमयं पुञ्छनीनामुपरि कवेल्लुकानामध आच्छादनं ' अङ्कमयकणगकूडतवणिज्जथूभियागा' अङ्कमयानि बाहुल्येनारत्नSमयानि पक्षरवातादीनामरत्नात्मकत्वात् कनकानि-कनकमयानि कूटानि-महान्ति शिखराणि येषां तानि कनककूटानि तप ॥६२॥ Jain Education Mainal For Personal & Private Use Only N ainelibrary.org|
SR No.600237
Book TitleRajprashniyasutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1925
Total Pages302
LanguageSanskrit
ClassificationManuscript & agam_rajprashniya
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy