________________
तिर्यग्व्यवस्थितमुत्तरङ्गं तानि ज्योतीरसमयानि-ज्योतीरसाख्यरत्नात्मकानि 'लोहियक्खमईओ' लोहिताशमय्यो लोहिताक्षर
नाधिकाः सूचयः-फलकद्वयसम्बन्धविघटनाभावहेतुः पादुकास्थानीयाः 'वइरामया संधी' वज्रमयाः सन्धयः सन्धिमेलाः फलकानां, किमुक्तं भवति ?-वज्ररत्नपूरिताः फलकानां सन्धयः, 'नाणामणिमया समुग्गया' इति समुद्गका इव समुद्गकाः- शूचिकागृहाणि तानि नानामणिमयानि 'वयरामया अग्गला अग्गलपासाया' अर्गलाः-प्रतीताः अर्गलाप्रासादा यत्रार्गला नियम्यन्ते, आह च जीवाभिगममूलटीकाकार:-"अर्गलाप्रासादो यत्रार्गला नियम्यन्ते इति" एते द्वये अपि वज्ररत्नमय्यौ 'रययामयाओ आवत्तणपेढियाओ' इति आवर्तनपीठिका नाम यत्रेन्द्रकीलको भवति, उक्तश्च विजयद्वारचिन्तायां जीवाभिगममूलटीकाकारेण- "आवर्तनपीठिका यन्द्रकीलको भवतीति ' अंकुत्तरपासगा' इति अङ्कग-अङ्करत्नमया उत्तरपार्था येषां द्वाराणां तानि अगत्तरपार्श्वकाणि 'निरंतरियघणकवाडा' इति निर्गता अन्तरिका-लघ्वन्तररूपा येषां ते निरन्तारका अत एव घना निरन्तरिका घनाः कपाटा येषां द्वाराणां तानि निरन्तरिकधनकपाटानि 'भित्तिसु चेव भित्तिगुलिया छप्पन्ना तिन्नि होंति' इति तेषां द्वाराणां प्रत्येकमुभयोः पार्श्वयोः भित्तिषुभित्तिगताः भित्तिगुलिका-पीठकस्थानीयाः तिस्रः षट्पञ्चाशत्प्रमाणा भवन्ति 'गोमाणसिया (सजा) तइया' इति गोमनस्यः शय्या 'तइया' इति तावन्मात्राः षट्पञ्चाशत्रिकसङ्ख्याका इत्यर्थः ‘णाणामणिरय णवालरूवगलीलवियसालभंजियागा' इति इदं द्वारविशेषणमेव, नानामाणिरत्नानि-नानामाणिरत्नमयानि व्यालरूपकाणि लीलास्थितशालभञ्जिकाश्च-लीलास्थितपुत्तलिका येषु तानि , तथा 'वयरामया कूडा रययामया उस्सेहा' इति कूडो-माडभाग उच्छ्यः -शिखरं, आह च जीवाभिगममूलटीकाकृत्-'कूडो माडभाग उच्छ्रयः शिखर ' मिति, नवरमत्र शिखराणि तेषामेव माडभागानां सम्बन्धीनि वेदितव्यानि, द्वारशिखराणामुक्तत्वात् वक्ष्य
Jain Education. Indreeslal
For Personal & Private Use Only
nelibrary.org