________________
सच पूर्वस्यां दिशि, ततो दक्षिणस्यां सप्तपर्णावतंसकः पश्चिमायां चम्पकावतंसकः उत्तरस्यां चूतावतंसकः मध्ये सौधर्मावतंसकर, ते च पश्चापि विमानावतंसकाः सर्वरत्नमया ' अच्छा जाव पडिरूवा' इति यावत्करणादत्रापि ' सहा लप्हा घट्टा मट्ठा' इत्यादि विशेपणजातमवगन्तव्यम् , अस्य च सौधर्मावतंसकस्य पूर्वस्यां दिशि तिर्यक असङ्ख्येयानि योजनशतसहस्राणि व्यतिव्रज्य-अतिक्रम्यात्र | सूर्याभस्य देवस्य सूर्याभं नाम विमानं प्रज्ञप्तं, अर्द्ध त्रयोदशं येषां तानि अर्द्धत्रयोदशानि, सार्दानि द्वादशेत्यर्थः, योजनशतसहस्राव्यायामविष्कम्भेन, एकोनचत्वारिंशत् योजनशतसहस्राणि द्विपञ्चाशत्सहस्राणि अष्टौ च योजनशतानि अष्टचत्वारिंशदधिकानि ३९५२८४८ किश्चिद्विशेषाधिकानि 'परिक्षेपेण' परिधिना, इदं च परिक्षेपपरिमाणं 'विवखंभवग्गदहगुणकरणी वट्टस्स परिरओ होइ । इति करणवशात् स्वयमानेतव्यं, सुगमत्वात् । ‘से णं एगण' मित्यादि, तद्विमानमेकेन प्राकारेण सर्वतः-सर्वासु दिक्षु समन्ततः-सामस्त्येन परिक्षिप्तं ॥ ‘से णं पागारे' इत्यादि, स प्राकारः त्रीणि योजनशतानि ऊर्ध्वमुच्चैरत्वेन मूले एक योजनशतं निष्कम्भेण मध्यभागे पञ्चाशत् , मूलादारभ्य मध्यभागं यावत् योजने योजने योजनत्रिभागस्य विष्कम्भतखुटितत्वात् , उपरि-मस्तके पञ्चविंशतियोजनानि विष्कम्भेण, मध्यभागादारभ्योपरितनमस्तकं यावत् योजने योजने योजनषडागस्य विष्कम्भतो हीयमानतया लभ्यमानत्वात् , अत एव मूले विस्तीर्णो मध्ये संक्षिप्तः, पञ्चाशतो योजनानां त्रुटितत्वात् , उपरि तनुकः पञ्चविंशतियोजनमात्रविस्तारात्मकत्वात् , अत एव गोपुच्छसंस्थानसंस्थितः, 'सवरयणामए अच्छे । इत्यादि विशेषणजातं प्राग्वत् , ' से णं पागारे | इत्यादि, स प्राकारो'णाणाविहपंचवन्नेहिं । इति नानाविधानि च तानि पञ्चवर्णानि च नानाविधपञ्चवर्णानि तैः, नानाविधत्वं च पञ्चवणापेक्षया द्रष्टव्यं कृष्णादिवर्णतारतम्यापेक्षया वा, पञ्चवर्णत्वमेव प्रकटयति- 'कण्हेहिं' इत्यादि, 'ते णं कविसीसगा'
Jain Education in
For Personal & Private Use Only
www.jainelibrary.org