________________
श्रीराजप्रश्नी मलयगिरीया वृत्तिः
मूयाभावमानवर्णनं
मू०२७
॥६
॥
कसूर्याभस्य देवस्य सूर्याभ विमानं प्रज्ञप्तं ?, भगवानाह-गौतम ! अस्मिन् जम्बुद्वीपे यो मन्दरः पर्वतस्तस्य दक्षिणतोऽस्यारत्नप्रभायाः पृथिव्या बहुसमरमणीयात् भूमिभागादू चन्द्रमूर्यग्रहगणनक्षत्रतारारूपाणामपि पुरतो बहूनि योजनानि बहूनि योजनशतानि ततो बुद्धया बहुबहुतरोत्प्लवनेन बहूनि योजनसहस्राप्येवमेव बहूनि योजनशतसहस्राणि एवमेव च बहीर्योजनकोटीरेवमेव च बहीर्योजनकोटीकोटीरूद्ध दूरमुल्लुत्य अत्र-सार्द्धरज्जुप्रमाणे प्रदेशे सौधम्मो नाम कल्पः प्रज्ञप्तः, स च प्राचीनापाचीनायतः, पूर्वापरायतः इत्यर्थः, उदग्दक्षिणविस्तीर्णः, अर्द्धचन्द्रसंस्थानसस्थितो, द्वौ हि सौधर्मशानदेवलोकौ समुदितौ परिपूर्णचन्द्रमण्डलसंस्थानसंस्थिती, तयोश्च मेरोदक्षिणवर्ती सौधर्मकल्प उत्तरवर्ती ईशानकल्पः ततो भवति सौधर्मकल्पः चन्द्रसंस्थानसंस्थितः, 'अच्चिमाली' इति अचींषि-किरणानि तेषां माला |आर्धिर्माला सा अस्यास्तीति अर्चिाली किरणमालासफुल इत्यर्थः, असख्येययोजनकोटीकोटी: 'आयामविवखंभेणं । ति
आयामश्च विष्कम्भश्चायामविष्कम्भं समाहारो द्वन्द्वरतेन, आयामेन च विष्कम्भेन चेत्यर्थः, असख्येया योजनकोटीकोट्यः 'परिकखेवेणं । परिधिना 'सवरयणामए' इति सर्वात्मना सनमयः 'जाव पडिरूवे ' इति यावत्करणात् ' अच्छे सण्हे घड़े महे ।। इत्यादिविशेषणकदम्बकपरिग्रहः, 'तत्थ ण' मित्यादि, तत्र सौधर्मे कल्पे द्वात्रिंशत् विमानशतसहस्राणि भवन्ति इत्याख्यातं मया शेषैश्च तीर्थकृद्भिः॥' ते णं विमाणे ' त्यादि, तानि विमानानि मूत्रे पुंस्त्वं प्राकृतत्वात् सवरत्नमयानि-सामस्त्येन रत्नमयानि | अच्छान आकाशस्फटिकवदतिनिर्मलानि अत्रापि यावत्करणात् 'सण्हा लव्हा घट्टा मट्टा नीरया' इत्यादि विशेषणजातं द्रष्टव्यं, तच्च प्रागेवानेकशी व्याख्यातं ' तेसिण' मित्यादि, तेषां विमानानां बहुमध्यदेशभागे त्रयोदशप्रस्तटे सर्वत्रापि विमानावतंसकानां स्वस्वकल्पचरमप्रस्तटवर्तित्वात् पश्चावंतसका:-पश्च विमानावतंसकाः प्रज्ञप्ताः, तद्यथा-अशोकावतंसक:-अशोकावतंसकनामा,
Jain Education
a
l
For Personal & Private Use Only
M
ainelibrary.org