________________
Jain Education I
जानुनी यस्यासावृर्ध्वजानुः, अधः शिरा नोर्द्ध तिर्यग्वा विक्षिप्तदृष्टिः किन्तु नियतभूभागनियमितदृष्टिरित्यर्थः, 'झाणकोट्टोवगए ' इति ध्यानं - धर्मध्यानं शुक्लध्यानं च तदेव कोष्ठः- कुशूलो ध्यानकोष्ठस्तमुपगतो ध्यानकोष्ठोपगतो, यथा हि कोष्टके धान्यं प्रक्षिप्तमविप्रसृतं भवति एवं भगवानपि ध्यानतोऽविप्रकीर्णेन्द्रियान्तःकरणवृत्तिरित्यर्थः, 'संयमेन पञ्चाश्रवनिरोधादिलक्षणेन तपसा| अनशनादिना चशब्दोऽत्र समुच्चयार्थो लुप्तो द्रष्टव्यः, संयमतपोग्रहणमनयोः प्रधानमोक्षाङ्गताख्यापनार्थी, प्राधान्यं संयमस्य नवकर्मा - नुपादानहेतुत्वेन तपसश्च पुराणकर्मनिर्जराहेतुत्वेन, तथाहि - अभिनवकर्मानुपादानात् पुराणकर्म्मक्षपणाच्च जायते सकलकर्मक्षयलक्षणो मोक्षस्ततो भवति संयमतपसोर्मोक्षं प्रति प्राधान्यमिति ' अप्पाणं भावेमाणे विहरति ' इति, आत्मानं वासयन् तिष्ठति । तएण ' मित्यादि, ततो ध्यानकोष्ठोपगतविहरणादनन्तरं 'ण' मिति वाक्यालङ्कारे स भगवान् गौतमो 'जातसड्डे ' इत्यादि, जातश्रद्धादिविशेषणविशिष्टः सन् उत्तिष्ठतीति योगः, तत्र जाता-प्रवृत्ता श्रद्धा-इच्छा वक्ष्यमाणार्थतत्त्वावगमं प्रति यस्यासौ जातश्रद्धः तथा जातः संशयो यस्य स जातसंशयः, संशयो नाम अनवधारितार्थ ज्ञानं, स चैवं इत्थं नामास्य दिव्या देवर्द्धिविस्तृता अभवत् इदानीं सा क गतेति, तथा 'जायकुतूहले ' इति जातं कुतूहलं यस्य स जातकुतूहल:, जातौत्सुक्य इत्यर्थः तथा कथममुमर्थ भगवान् प्ररूपयिष्यति इति, तथा ' उप्पन्नसडे ' उत्पन्ना प्रागभूता सती भूता श्रद्धा यस्यासौ उत्पन्नश्रद्धः, अथ जातश्रद्ध इत्येतदेवास्तु ॐ किमर्थमुत्पन्नश्रद्ध इति, प्रवृत्तश्रद्धत्वेनैवोत्पन्नश्रद्धत्वस्य लब्धत्वात्, न हि अनुत्पन्ना श्रद्धा प्रवर्त्तते इति, अत्रोच्यते, हेतुत्वप्रदर्शनार्थ, तथाहि - कथं प्रवृत्तश्रद्धः ?, उच्यते, यत उत्पन्नश्रद्धः, इति हेतुत्वदर्शनं चोपपन्नं, तस्य काव्यालङ्कारत्वात् यथा 'प्रवृत्तदीपामप्रवृत्तभास्करां, प्रकाशचन्द्रां बुबुधे विभावरी मित्यत्र, अत्र हि यद्यपि प्रवृत्तदीपादित्वादेवाप्रवृत्त भास्करत्वमुपगतं तथाप्यप्रवृत्त भास्करत्वं
87070708070800307038738
For Personal & Private Use Only
ainelibrary.org