________________
SENaac
भगवद्गौतम| वर्णन
मु०२६
श्रीराजप्रश्नीहि तेन तपस्तप्तं येन सर्वाण्यपि अशुभानि कर्माणि भस्मसात् कृतानीति 'महातवे' इति महान्-प्रशस्तमाशंसादोषरहितत्वात् तपो मलयगिरी- यस्य स महातपाः, तथा 'उराले' इति, उदारः-प्रधानः अथवा उरालो-भीष्मः उग्रादिविशिष्टतपःकरणतः पार्श्वस्थानामल्पसत्त्वाया दृत्तिः नामतिभयानक इति भावः, तथा घोरो-निघृणः परीषहेन्द्रियादिरिपुगणविनाशनमधिकृत्य निर्दय इतियावत्, तथा घोरा-अन्यैर्दुरनु
चरा गुणा मूलगुणादयो यस्य स घोरगुणः, तथा घोरैस्तपोभिस्तपस्वी घोरतपस्वी, 'घोरबंभचेरवासी' इति घोरं-दारुणमल्पसत्त्वैर्दुरनुचरत्वात् ब्रह्मचर्यं यत् तत्र वस्तुं शीलं यस्य स तया, 'उच्छृहसरीरे' इति उच्छृढम्-उज्झितमिवोज्झितं संस्कारपरित्यागात् शरीरं येन स उच्छूढशरीरः, 'संवित्तविउलतेउलेसे' इति साङ्घिसा-शरीरान्तर्गतत्वेन हस्वतां गता विपुला-विस्तीर्णा अनेकयोजनप्रमाणक्षेत्राश्रितवस्तुदहनसमर्थत्वात् तेजोलेश्या-विशिष्टतपोजन्यलब्धिविशेषप्रभवा तेजोज्वाला यस्य स तथा, 'चउदसपुत्वी ' इति चतुर्दश पूर्वाणि विद्यन्ते यस्य तेनैव तेषां रचितत्वात् असौ चतुर्दशपूर्वी, अनेन तस्य श्रुतकेवलितामाह, स चाव|धिज्ञानादिविकलोऽपि स्यादत आह-'चउनाणोवगए। मतिश्रुतावधिमनःपर्यायज्ञानचतुष्टयसमन्वितः, उक्तविशेषणद्वययुक्तोऽपि कश्चिन्न समग्रश्रुतविषयव्यापिज्ञानो भवति चतुर्दशपूर्वविदामपि षट्स्थानपतितत्वेन श्रवणादत आह-'सर्वाक्षरसन्निपाती' अक्षराणां सन्निपाताः-संयोगाः अक्षरसन्निपाताः सर्वे च ते अक्षरसन्निपाताश्च सर्वाक्षरसन्निपातास्ते यस्य ज्ञेयाः स तथा, किमुक्तं भवति ?-या काचित् जगति पदानुपूर्वी वाक्यानुपूर्वी वा संभवति ताः सर्वा अपि जानातीति, एवंगुणविशिष्टो भगवान् विनयराशिरिव साक्षादितिकृत्वा शिष्याचारत्वाच्च श्रमणस्य भगवतो महावीरस्यादृरसामन्ते विहरतीति योगः, तत्र दूरं-विप्रकृष्टं सामन्तं-सन्निकृष्टं तत्प्र- तिषेधाददूरसामन्तं ततो नातिदूरे नातिनिकटे इत्यर्थः, किविशिष्टः सन् तत्र विहरतीत्यत आह-' ऊजाण अहोसिरे ऊर्ध्व
॥ ५७ ॥
NBN
dain Education
For Personal & Private Use Only
A
inelibrary.org