SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ रन्तरं आसनस्य ललाटोपरिभागस्य चान्तरं वामस्कन्धस्य दक्षिणजानुनश्चान्तरामति, अपरे त्वाः-विस्तारोत्सेधयोः समत्वात समचतुरस्रं तच तत्संस्थानं च २, संस्थानम्-आकारस्तेन संस्थितो-व्यवस्थितो यः स तथा 'जाव उद्याए उद्वेइ' इति यावतकरणात 'वजरिसहसंघयणे कणगपुलगनिघसपम्हगोरे उग्गतवे दित्ततवे तत्ततवे महातवे उराले घोरे घोरगुणे घोरतवस्सी घोरखंभचेरवासी उच्छूढसरीरे संखित्तविपुलतेयलेसे चउदसपुत्वी चउनाणोवगए सव्वक्खरसन्निवाई समणस्स भगवतो महावीरस्स अदूरसामन्ते उडुजाणू अहोसिरे झाणकोट्टोवगए संजमेणं तवसा अप्पाणं भावमाणे विहरइ, तए णं से भगवं गोयमे जायसड़े जायसंसए जायकोउहल्ले उप्पन्नसड़े उप्पन्नसंसए उप्पन्नकोउहल्ले संजायसढे संजायसंसए संजायकोउहल्ले समुप्पण्णसड़े समुप्पण्णसंसए समुप्पण्णकोउहल्ले उहाए उद्वेइ ' इति द्रष्टव्यं, तत्र नाराचमुभयतो मर्कटबन्धः ऋषभस्तदुपरि वेष्टनपट्टः कीलिका अस्थित्रयस्यापि भेदकमस्थि एवंरूपं संहननं यस्य स तथा, तथा कनकस्य-सुवर्णस्य यः पुलको-लवस्तस्य यो निकषः-कपपट्टके रेखारूपस्तथा पद्मग्रहणेन पद्मकेसराण्युच्यन्ते अवयवे समुदायोपचारात् यथा देवदत्तस्य हस्ताग्ररूपोऽवयवोऽपि देवदत्तः, तथा च देवदत्तस्य हस्ताग्रं स्पृष्टा लोको । वदति-स्पृष्टो मया देवदत्त इति, कनकपुलकनिकषवत् पनवच्च यो गौरः स कनकपुलकनिकषपद्मगौरः, अथवा कनकस्य यः पुलको-द्रवत्वे सति बिन्दुस्तस्य निकषो वर्णतः सदृशः कनकपुलकनिकषः, तथा पद्मवत्-पद्मकेसरवत् यो गौरः स पद्मगौरः, ततः पदद्वयस्य कर्मधारयसमासः, अयं च विशिष्टचरणरहितोऽपि शङ्कयेत तत आह-'उग्गतवे' इति, उग्रम्-अधृष्यं तपः-अनशनादि यस्य स तथा, यदन्येन प्राकृतेन पुंसा न शक्यते चिन्तयितुमपि मनसा तद्विधेन तपसा युक्त इत्यर्थः, तथा दीप्तं-जाज्वल्यमानदहन इव कर्मवनगहनदहनसमर्थतया ज्वलितं तपो-धर्मध्यानादि यस्य स तथा, 'तत्ततवे' इति तप्तं तपो येन स तप्ततपाः, एवं Jain Education in For Personal & Private Use Only nelibrary.org
SR No.600237
Book TitleRajprashniyasutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1925
Total Pages302
LanguageSanskrit
ClassificationManuscript & agam_rajprashniya
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy