________________
श्रीराजप्रश्नी मलयगिरी या वृत्तिः
कूटांकारशा लादृष्टान्तः वैक्रियसंहरणे
एत्थ णं महेगे जणसमूहे चिट्ठति, तए णं से जणसमूहे एगं महं अभवद्दलगं वा वासवदलगं वा महापायं वा इज्जमाणं पासति २ ता तं कूडागारसालं अंतो अणुपविसित्ता णं चिट्टइ, से तेणट्रेणं गो
पमा ! एवं वुञ्चति-सरीरं अणुपवि? (सू. २६) ___ भदन्तेत्यामन्त्रणपुरस्सरं भगवान् गौतमः श्रमणं भगवन्तं महावीरं वन्दते नमस्यति वन्दित्वा नमस्यित्वा ‘एवं ' वक्ष्यमाणप्रकारेणावादीत , पुस्तकान्तरे त्विदं वाचनान्तरं दृश्यते, 'तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स जिट्टे अंतेवासी' इत्यादि, अस्य व्याख्या-तस्मिन् काले तस्मिन् समये गंशब्दो वाक्यालङ्कारार्थः, श्रमणस्य भगवतो महावीरस्य 'ज्येष्ठ । इति प्रथमोऽन्तेवासी-शिष्यः, अनेन पदद्वयेन तस्य सकलसङ्घाधिपतित्वमावेदयति, इन्द्रभूतिरिति मातापितृकृतं नामधेयं नामेतिप्राकतत्वात् विभक्तिपरिणामेन नाम्नति द्रष्टव्यं, एवमन्यत्रापि यथायोगं भावनीयम् , अन्तेवासी च किल विवक्षायां श्रावकोऽपि स्यादतस्तदाशगव्यवच्छेदार्थमाह-'अनगारः। न विद्यते अगारं-गृहमस्येत्यनगारः, अयं च विगीतगोत्रोऽपि सम्भाव्येतात आह-गौतमो गोत्रेण गौतमायगोत्रसमन्वित इत्यर्थः, अयं च तत्कालोचितदेहपरिमाणापेक्षया न्यूनाधिकदेहोऽपि स्यादत आह-सप्तोत्सेधः-सप्तहस्तप्रमाणशरीरोच्छायः, अयं चेत्थम्भूतो लक्षणहीनोऽपि शत्येतातस्तदाशङ्कापनोदार्थमाह-'समचउरंससंठाणसंठिए' इति, समाः--शरीर-1 लक्षणशास्त्रोक्तप्रमाणाविसंवादिन्यश्चतस्रोऽस्रयो यस्य तत् समचतुरस्रं अस्रयस्त्विह चतुर्दिग्विभागोपलक्षिताः शरीरावयवा द्रष्टव्याः, अन्ये त्वाहुः-समा-अन्यूनाधिकाश्चतस्रोऽप्यस्रयो यत्र तत् समचतुरस्रं तच्च तत् संस्थानं च, संस्थानम्-आकारः तच्च, वामदक्षिणजान्वो
Jain Education
For Personal & Private Use Only
Janelibrary.org