SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ PANESH श्रीराजप्रश्नी मलयगिरी- या वृत्तिः तेष्वन्येषु च कुहरेषु स्वानुरूपाणि प्रतिशब्दसहस्राण्युत्थापयद्वर्त्तते इति, 'रत्तमिति रक्तं इह यत् गेयरागानुरक्तेन गीतं गीयते तत् नाट्यविधिः रक्तमिति तद्विदा प्रसिद्धं, 'तिट्ठाणकरणसुध्ध मिति त्रीणि स्थानानि-उरःप्रभृतीनि तेषु करणेन-क्रियया शुद्धं त्रिस्थानकरणशुद्धं, मू० २३ तद्यथा-उरःशुद्धं कण्ठशुद्धं शिरोविशुद्धं च, तत्र यदि उरसि स्वरः स्वभूमिकानुसारेण विशालो भवति तत उरोविशुद्धं स एव यदि कण्ठे वर्तितो भवति अस्फुटितश्च ततः कण्ठविशुद्धं यदि पुनः शिरः प्राप्तः सन् सानुनासिको भवति ततः शिरोविशुद्धं, यदि वा यत उरकण्ठशिरोभिः श्लेष्मणा अव्याकुलितैत्रिशुद्धीयते तत उरःकण्ठशिरोविशुद्धत्वात्रिस्थानकरणविशुद्धं, तथा सकुहरो गुञ्जन यो वंशो ये च तन्त्रीतलताललयग्रहास्तेषु सुष्ठ-अतिशयेन सम्पयुक्तं सकुहरगुञ्जदंशतन्त्रीतलताललयग्रहसुसम्पयुक्तं, किमुक्तं भवति ?-सकुहरे वंशे गुञ्जति तन्त्र्यां च वाद्यमानायां यदंशतन्त्रीस्वरेणाविरुद्धं तत् सकुहरगुञ्जदंशतन्त्रीसुसन्प्रयुक्तं, तथा परस्परहतहस्ततलस्वरानुवति यत् तत् तलसुसम्पयुक्तं, यत् मुरजकंशिकादीनामातोद्यानामाहतानां यो ध्वनिः पादोत्क्षेपो यच नृत्यता नर्तिकापादोत्क्षेपस्तेन समं तत् तालसुसम्पयुक्तं, तथा शृङ्गमयो दारुमयो दन्तमयो वा योङ्गुलिकौशिकस्तेनाहतायास्तन्त्र्याः स्वरप्रकारो लयस्तमनुसरन् गेयलयसुसम्पयुक्तं, तथा यः प्रथमं वंशतन्व्यादिभिः स्वरो गृहीतस्तन्मार्गानुसारि ग्रहसुसम्पयुक्तं, तथा 'महुति मधुरस्वरेण गीयमानं, मधुरं कोकिलारुतवत , तथा 'सममिति तलवंशस्वरादिसमनुगतं समं 'सललिय'ति यत्स्वरघोलनाप्रकारेण ललतीव तत् सह ललितेन ललनेन वर्त्तते इति सललितं, यदि वा इति यत् श्रोत्रेन्द्रियस्य शब्दस्पर्शनमतीव सूक्ष्ममुत्पादयति सुकुमारमिव च प्रतिभासते तत्सललितमिति, अत एव मनोहरं, पुनः कथम्भूतमित्याह-'मउरिभितपदसञ्चारं तत्र मृदुमुदुना- D५१॥ स्वरेण युक्तो न निष्ठरेण तथा यत्र स्वरोऽक्षरेषु घोलनास्वरविशेषेषु च सञ्चरन् रङ्गन्तीव प्रतिभासते(स)पदसञ्चारो रिमित उच्यते, मृदुरि Jain Education a l For Personal & Private Use Only Lainelibrary.org
SR No.600237
Book TitleRajprashniyasutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1925
Total Pages302
LanguageSanskrit
ClassificationManuscript & agam_rajprashniya
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy