SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ त्यादि, ततस्ते बहवो देवकुमारा देवकुमारिकाश्च सूर्याभेन देवेन एवमुक्ताः सन्तो हृष्टा यावत्प्रतिशृण्वन्ति, अभ्युपगच्छन्तीत्यर्थः, प्रतिश्रुत्य च यत्र श्रमणो भगवान्महावीरस्तत्रोपागच्छति उपागत्य च श्रमणं भगवन्तं महावीरं त्रिकृत्व आदक्षिणप्रदक्षिणीकुर्वन्ति कृत्वा च वन्दन्ते नमस्यन्ति वन्दित्वा नमस्यित्वा च यस्मिन्प्रदेशे गौतमादयः श्रमणास्तत्र समकालमेव-एककालमेव समवसरन्ति, मिलन्तीत्यर्थः, समवसृत्य च समकमेव-एककालमेव अवनमन्ति–अधो नीचा भवन्ति, अवनम्य च समकमेव उन्नमन्ति, ऊर्ध्वमवतिछन्ते इति भावः, तदनन्तरं चैवं क्रमेण सहितं सङ्गतं स्तिमितं चावनमनमुन्नमनं च वाच्यम् , अमीषां च सहितादीनां भेदः सम्यकौशलोपेतनाट्योपाध्यायादेवागन्तव्यः, ततः स्तिमितं समकमुन्नम्य समकमेव प्रसरन्ति, प्रसृत्य च समकमेव यथायोगमातोद्यविधानानि गृह्णन्ति, गृहीत्वा च समकमेव प्रवादितवन्तः समकमेव प्रगीतवन्तः समकमेव प्रनर्तितवन्तः, 'किन्ते ' इत्यादि, किञ्च ते देवकुमारा देवकुमारिकाश्च एवं प्रगीता अप्यभवन्निति योगः, कथमित्याह-'उरेण मंद'मिति, सर्वत्र सप्तम्यर्थे तृतीया, उरसि मन्दं यथा भवति एवं प्रगीताः, 'शिरेण तारं कण्ठेन वितार मिति शिरसि कण्ठे च तारं अतिशयेन यथावल्लक्षणोपेतं, किमुक्तं भवति ?-उरसि प्रथमतो गीतमुत्क्षिप्यते उत्क्षेपकाले च गीतं मन्दं भवति, आदिमिउमारभंता' इति वचनात् , अन्यथा गीतगुणक्षतेः, तत उक्तं ' उरसि मन्द'मिति, ततो गायतां मूर्धानमभिन्नन् स्वर उच्चैस्तरो भवति, स्थानकं च द्वितीयं तृतीयं वा समधिरोहति, ततः शिरसि तारामित्युक्तं, शिरसश्च प्रतिनिवृत्तः सन् स्वरः कण्ठे घुलति घुलश्चातिमधुरो भवति ततः कण्ठे वितारमित्युक्तं तिविहंतिसमयरेयगरइयमिति, 'गुंजावंककुहरोवगूढ' गुञ्जनं गुञ्जा गुञ्जाप्रधानानि यानि अवक्राणि-शब्दमार्गाप्रतिकूलानि कुहराणि तेषूपगूढं गुञ्जा:वत्रकुहरोपगूढं, किमुक्तं भवति ?-तेषां देवकुमाराणां देवकुमारिकाणां च तस्मिन् प्रेक्षागृहमण्डपे गायता गीतं तेषु प्रेक्षागृहमण्डपस Sain Education For Personal & Private Use Only hinetbrary.org
SR No.600237
Book TitleRajprashniyasutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1925
Total Pages302
LanguageSanskrit
ClassificationManuscript & agam_rajprashniya
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy