________________
नाट्यविधिः
श्रीराजप्रश्नी मलयगिरीया वृत्तिः
२३
॥५०॥
प्रतीतः ४३, अष्टशतं दर्दरिकाणामष्टशतं दर्दरिकावादकानां लघुदर्दरको दर्दरिका ४४ अष्टशतं कुस्तुम्बराणामष्टशतं कुस्तुम्बर- वादकानां ४५ अष्टशतं कलशिकानामष्टशतं कलशिकावादकानां ४६, अष्टशतं कलशानामष्टशतं कलशवादकानां ४७, अष्टशतं तालानामष्टशतं तालवादकानां ४८, अष्टशतं कांस्यतालानामष्टशतं कांस्यतालवादकानां ४९, अष्टशतं रिंगिसिकानामष्टशतं रिंगिसिकावादकानां ५०, अष्टशतमङ्गरिकाणामष्टशतमङ्गरिकावादकानां ५१, अष्टशतं शिशुमारिकाणामष्टशतं शिशुमारिकावादकानां ५२, अष्टशतं वंशानामष्टशतं वंशवादकानां ५३ अष्टशतं बालीनामष्टशतं बालीवादकानां, बाली-तूणविशेषः, स हि मुखे दत्त्वा वाद्यते ५४, अष्टशतं वेणूनामष्टशतं वेणुवादकानां ५५, अष्टशतं परिलीनामष्टशतं परिलीवादकानां ५६, अष्टशतं बद्धकानामष्टशतं बद्धकवादकानां, बद्धकस्तूणविशेषः ५७, अव्याख्यातास्तु भेदा लोकतःप्रत्येतव्याः, एवमादीनि बहून्यातोद्यानि आतोद्यवादकांश्च विकुर्वति, सर्वसङ्ख्यया तु मूलभेदापेक्षयाऽऽतोद्यभेदा एकोनपश्चाशत् , शेषास्तु भेदा एतेष्वेवान्तर्भवन्ति, यथा वंशातोद्यविधाने बालीवेणुपरिलीबवगा इति । एवमाझ्याइं एगुणपण्णं आतोजविहाणाई विउव्वइ' इति, विकुर्वित्वा च तान् स्वयंविकुर्वितान् देवकुमारान् देवकुमारिकाश्च शब्दयति, ते च शब्दिता हृष्टतुष्टानन्दितचित्ताः सूर्याभसमीपमागच्छन्ति, आगत्य च करतलपरिगृहीतं दशनखं शिरसाव च मस्तकेऽञ्जलिं कृत्वा जयेन विजयेन बर्दापयित्वा एवमवादिषुः-सन्दिशन्तु देवानां प्रिया यदस्माभिः कर्त्तव्यं, ततः स मूर्याभो देवस्तान् बहून् देवकुमारान् देवकुमारिकाश्च एवमबादीत-गच्छस यूयं देवानां प्रियाः श्रमणं भगवन्तं महावीरं त्रिकृत्व आदक्षिणप्रदक्षिणं कुरुत कृत्वा च वन्दध्वं नमस्यत वन्दित्वा नमस्यित्वा गौतमादीनां श्रमणानां निग्रन्थानां तां देवजनप्रसिद्धां दिव्यां देवदि दिव्या देवद्युतिं दिव्यं देवानुभावं दिव्यं द्वात्रिंशद्विधं नाट्यविधिमुपदर्शयत, उपदर्य चैतामाज्ञप्तिका क्षिप्रमेव प्रत्यर्पयत। 'तए णमिर
॥५०॥
JainEducation
Alinal
For Personal & Private Use Only
HTM
ainelibrary.org