SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. बृहद्वृत्तिः ॥५५९॥ गत्य०२८ तत्वेन च सिद्धत्वात् , न च खपुष्पादिपु सङ्केतितैर्दुःखादिशुद्धपदैरनेकान्तो, वृद्धपरम्परायातसङ्केतविषयाणामेव || मोक्षमार्गशुद्धपदाना वाच्यत्वस्येह हेतुत्वेनेष्टत्वात् , निपुणेन प्रतिपत्रा भाव्यम् , अन्यथा धूमादेरपि गोपालघटादिष्वन्यथा-| भावदर्शनादेष प्रसङ्गो दुर्निवारः स्यात् , उक्तं च-"अत्थित्ति निवियप्पो जीवो नियमा उ सहतो सिद्धी। कम्हा? सुद्धपयत्ता घडखरसिंगाणुमाणाओ॥१॥” इत्याधलं प्रसङ्गेन, तथा 'अधर्मः' अधर्मास्तिकायः स्थितिः स्थानं गतिनिवृत्तिरित्यर्थः, तल्लक्षणमस्येति स्थानलक्षणः, स हि स्थितिपरिणतानां जीवपुद्गलानां स्थितिलक्षणकार्य प्रत्यपेक्षाकारणत्वेन व्याप्रियत इति तेनैव लक्ष्यत इत्युच्यते, अनेनाप्यनुमानमेव सूचितं, तच्चेदम्-यद्यत्कार्य तत्तदपेक्षाकारणवद्, यथा घटादि, कार्य चासौ स्थितिः, यच तदपेक्षाकारणं तदधर्मास्तिकाय इति, अत्र च नैयायिकादिः सौगतो वा वदेत्-नास्ति अधर्मास्तिकायः,अनुपलभ्यमानत्वात् , शशविषाणवत्, तत्र यदि नैयायिकादिस्तदाऽसौ वाच्यः-कथं * भवतोऽपि दिगादयः सन्ति ?, अथ दिगादिप्रत्ययलक्षणकार्यदर्शनाद , भवति हि कार्याकारणानुमानम् , एवं सति | स्थितिलक्षणकार्यदर्शनादयमप्यस्तीति किं न गम्यते ?, अथ तत्र दिगादिप्रत्ययकार्यस्यान्यतोऽसम्भवात्कारणभूतान् दिगादीननुमिमीमह इति मतिः,इहाप्याकाशादीनामवगाहदानादिखखकार्यव्यापृतत्वेन ततोऽसम्भवादधर्मास्तिकाय- ५५९॥ स्यैव स्थितिलक्षणं कार्यमिति किं नानुमीयते ?, अथासौ न कदाचिद् दृष्टः?, एतहिगादिष्वपि समानम् । अथ सौगतः १ अस्तीति निर्विकल्पो जीवो नियमात् शब्दत एव सिद्धिः । कस्मात् ? शुद्धपदत्वात् घट खरशृङ्गानुमानात् ॥ १॥ Join Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600236
Book TitleUttaradhyayansutram Part 03
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy