SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ सोऽप्येवं वक्तव्यः यथा-भवतः कथं बाह्यार्थसंसिद्धिः१, न हि कदाचिदसौ प्रत्यक्षगोचरः, साकारज्ञानवादिनः सदा तदाकारस्यैव संबेदनात्, तथा च तस्याप्यनुपलभ्यमानत्वादभाव एव, अथाकारसंवेदनेऽपि तत्कारणमर्थः परिक ल्प्यते, धूमज्ञान इवाग्निः, एवं सति स्थितिदर्शनेऽपि किं न तत्कारणस्याधर्मास्तिकायस्य निश्चयः१, अथायमप्यभिदादधीत-न कदाचिदसौ तत्कारणत्वेनेक्षित इति, ननु बाह्यार्थेऽपि तुल्यमेतत्, न हि सोऽपि तदाकारकारितया कदाचिदवलोकितः,अथ मनस्कारस्य चिद्रूपतायामेव व्यापारो न तु नियता(त)कारणत्वे,अतस्तत्रार्थः कारणं कल्प्यते, एवं तर्हि जीवपुगलौ परिणाममात्र एव कारणं, स्थितिपरिणतौ पुनरधर्मास्तिकायोऽपेक्षाकारणत्वेन व्याप्रियत इति | किं न कल्प्यते ?, अथासौ सर्वदा सर्वस्य सन्निहित इत्यनियमेन स्थितिकारणं भवेत् , नन्वेवमर्थोऽपि किं सन्निहित इत्येव खाकारमर्पयति ?, अथ चक्षुरादिव्यापारमयमपेक्षते, अधर्मास्तिकायोऽपि तर्हि खपरगतौ विश्रसाप्रयोगावपेक्षत इति नानयोर्विशेषमुत्पश्यामः, तथा 'भाजनम्' आधारः 'सर्वद्रव्याणां' जीवादीनां 'नमः' आकाशम् , अवगाहः-अवकाशस्तल्लक्षणमस्येत्यवगाहलक्षणं तयवगाढुं प्रवृत्तानामालम्बनीभवति, अनेनावगाहकारणत्वमाकाशस्योक्तं, न चास्य तत्कारणत्वमसिद्धं, यतो यद्यदन्वयव्यतिरेकानुविधायि तत्तत्कार्य, यथा चक्षुराधन्वयव्यतिरेकानुविधायि रूपादिविज्ञानम् , आकाशान्वयव्यतिरेकानुविधायी चावगाहः, तथाहि-शुषिररूपमाकाशं, तत्रैव चावगाहो, न तु तद्विपरीते पुद्गलादौ, अथैवमलोकाकाशेऽपि कथं नावगाहः, उच्यते, स्वादेवं यदि कश्चिदवगाहिता भवेत् , Join Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600236
Book TitleUttaradhyayansutram Part 03
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy