SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ धम्मो अधम्मो आगासं, दव्वं इक्किकमाहियं । अनंताणि य दव्वाणि, कालो पुग्गलजंतवो ॥ ८ ॥ धर्मोधर्म आकाशं द्रव्यमिति धर्मादिभिः प्रत्येकं योज्यते 'एकैकं' एकसङ्ख्याया एवैतेषु भावाद् आख्यातं तीर्थकृद्भिरिति गम्यते, तत्किं कालादिद्रव्याण्यप्येवमेवेत्याह- 'अनन्तानि' अनन्तसङ्ख्यानि खगतभेदानन्त्यात्, 'चः' पुनरर्थे उत्तरत्र योक्ष्यते, कानि ?, द्रव्याणि कतमानि ? – कालः पुद्गलजन्तवश्चोत्तरूपाः, कालस्य चानन्त्यमतीता| नागतापेक्षयेति सूत्रार्थः ॥ एषां परस्परभेदनिबन्धनं लक्षणभेदमाह– गइलक्खणो उ धम्मो, अहम्मो ठाणलक्खणो । भायणं सव्वदव्वाणं, नहं ओगाहलक्खणं ॥ ९ ॥ वत्तणालक्खणो कालो, जीवो उवओगलक्खणो । नाणेणं दंसणेणं च, सुहेण य दुहेण य ॥ १० ॥ नाणं च दंसणं चेव, चरित्तं च तवो तहा। वीरियं उवओगे य, एयं जीवस्स लक्खणं ॥ ११ ॥ सधयारउजोओ, पभा छाया तवुत्ति वा । वण्णरसगंधफासा, पुग्गलाणं तु लक्खणं ॥ १२ ॥ गमनं गतिः —देशान्तरप्राप्तिः लक्ष्यतेऽनेनेति लक्षणं, गतिर्लक्षणमस्येति गतिलक्षणः, 'तुः' पूरणे, कोऽसौ ? - धर्मास्तिकायः, आह - सिद्धे सति वस्तुनोऽस्तित्वे इदमनेन लक्ष्यत इति वक्तुं युक्तम्, अस्य तु सत्त्वमेवासिद्धम्, अत्रोच्यते, यद्यच्छुद्धपदवाच्यं तत्तदस्ति, यथा स्तम्भादिः, शुद्धपदवाच्यश्च धर्मनामास्तिकायो, न चायमसिद्धो हेतु:, धर्म इत्यस्यैतद्वाचकस्यासमस्तपदत्वेन तथाऽभिधेयार्थबाधकप्रमाणाभावात् प्रमाणान्तरवाधितविषयत्वाख्यदोषरहि Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600236
Book TitleUttaradhyayansutram Part 03
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy