SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ दिभिरक्षराण्युपलभमानस्य शेषेन्द्रियगृहीतं वाऽर्थ विकल्पयतोऽक्षरारूपितं विज्ञानमुपजायते तदिह भावश्रुतं श्रुतशब्देनोक्तं, तथाऽभिमुखो योग्यदेशावस्थितवस्त्वपेक्षया नियतः स्वस्वविषयपरिच्छेदकतयाऽवबोधः - अवगमोऽभिनिबोधः स एवाभिनिवोधिकं, विनयादित्वात्स्वार्थिकष्ठक्, 'ओहि 'त्ति अवशब्दोऽधः शब्दार्थः, ततश्चाध इत्यधस्ताद्धावति अधोऽधा | विस्तृत विषयवेदकतयेत्यवधिः, औणादिको डिः, यद्वा 'अवे' त्यध एव धानं धातूनामनेकार्थत्वात्परिच्छेदोऽवधिः, 'उपसर्गे घोः कि' रिति (पा०३ - ३ - ९२) किः, अथवाऽवधिः - मर्यादा रूपिष्येव द्रव्येषु परिच्छेदकतया प्रवृत्तिरित्येवंरूपा, तदुपलक्षितं ज्ञानमप्यवधिः, ज्ञायतेऽनेनेति ज्ञातिर्वा ज्ञानं, ततोऽवधिश्वासौ ज्ञानं चावधिज्ञानं, तृतीयं तृतीयस्थानवर्त्ति | त्वात्, 'मणणाणं' ति मनःशब्देन द्रव्यपर्याययोः कथञ्चिदभेदात् मनोद्रव्यपर्याया गृह्यन्ते, तेषु तत्तत्सज्ञिविकल्पहेतुषु ज्ञानं मनोज्ञानं, तानेव हि मनःपर्यायज्ञानी साक्षादेव बुध्यते, न तु वाह्यान्, अनुमानगम्यमानत्वात्तेषाम् उक्तं हि - " जाणति बज्झेऽणुमाणाओ"त्ति, 'चः' समुच्चये भिन्नक्रमस्ततः केवलं च तत्र केवलम् - एकमकलुषं सकलमसाधारणमनन्तं च ज्ञानमिति प्रक्रमः, उक्तं हि - "केवलमेगं सुद्धं सकलमसाधारणं अनंतं च ।" आह- नन्द्यादिषु मतिज्ञानानन्तरं | श्रुतज्ञानमुक्तं तदिह किमर्थमादित एव श्रुतोपादानम् ?, उच्यते, शेषज्ञानानामपि स्वरूपज्ञानस्य प्रायस्तदधीनत्वेन प्राधान्यख्यापनार्थमिति सूत्रार्थः ॥ साम्प्रतं ज्ञानशब्दस्य सम्बन्धिशब्दत्वाद्येषां तज्ज्ञानं तान्यभिधातुमाह १ जानाति बाह्याननुमानात् २ केवलमेकं शुद्धं सकलमसाधारणमनन्तं च । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600236
Book TitleUttaradhyayansutram Part 03
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy