________________
उत्तराध्य.
बृहद्वृत्तिः
॥५५७॥
एवं पंचविहं नाणं, दव्वाण य गुणाण य । पज्जवाणं च सव्वेसिं, नाणं नाणीहिं देखियं ॥ ५ ॥
'एतद्' अनन्तरोक्तं पञ्चविधं ज्ञानं द्रवन्ति - गच्छन्ति तांस्तान् पर्यायानिति द्रव्याणि - वक्ष्यमाणलक्षणानि तेषां, 'चः' तद्गतानेकभेदख्यापको, गुणानां रूपादीनां चः प्राग्वत्, परीति- सर्वतः कोऽर्थः ? - द्रव्येषु गुणेषु सर्वेष्वव - |न्ति - गच्छन्तीति पर्यवास्तेषां च, 'सर्वेषाम्' अशेषाणां, केवलापेक्षया चायं द्रव्यकात्स्न्यें सर्वशब्दः शेषज्ञानापेक्षया तु प्रकारकात्यै, प्रतिनियतपर्यायग्राहित्वात्तेषां 'ज्ञानम्' अवबोधकं 'ज्ञानिभिः' अतिशयज्ञानोपेतैः केव|लिभिरितियावत् 'देशितं' कथितम् । अनेन च यदाहु: - ज्ञानं ज्ञानखरूपस्यैव ग्राहकं, बाह्याभिमतस्य वस्तुनो ज्ञाना|तिरिक्तस्यासत्त्वाद्, अत एवोक्तं- 'खरूपस्य खतो गतिरिति, तन्निरस्तम्, अन्तः सुखादिप्रतिभासवद्बहिः स्थूलप्रति - | भासस्यापि स्वसंविदितत्वात् न च युगपद्वेद्यमानयोरेकस्य तात्त्विकत्वमितरस्य त्वन्यथात्वमिति निमित्तं विना कल्पयितुं शक्यम्, अथैकत्राविद्योपदर्शितत्वं तत्कल्पननिमित्तं, न, यतस्तदितरत्रापि किं न कल्प्यते ?, निमित्तं | विना कल्पनाया उभयत्राविशेषात्, तथा च ज्ञानस्याप्यभावेन सर्वशून्यतापत्तिरित्यलं प्रसङ्गेनेति सूत्रार्थः ॥ अनेन द्रव्यादिविषयत्वं ज्ञानस्योक्तं, तत्र च द्रव्यादीनि किंलक्षणानीत्यत आह
गुणाणं आसओ दव्वं, एगदव्वस्सिया गुणा । लक्खणं पज्जवाणं तु, उभओ अस्सिया भवे ॥ ६ ॥ 'गुणानां' वक्ष्यमाणानाम् ' आश्रयः' आधारो यत्रस्थास्त उत्पद्यन्ते उत्पद्य चावतिष्ठन्ते प्रलीयन्ते च तद् द्रव्यम्,
Jain Education International
For Personal & Private Use Only
मोक्षमार्ग
गत्य० २८
॥५५७॥
www.jainelibrary.org