________________
उत्तराध्य.
बृहद्धत्तिः
॥५५६॥
नमुपादीयते, इत्थं चैतत् , सर्वत्र मोक्षमार्गगतिप्रस्तावाद्विपर्यस्तज्ञानादीनां तत्कारणताऽनुपपत्तेरन्यथाऽतिप्रसङ्गा- मोक्षमार्गतथेति, सर्वत्र चशब्दः समुच्चये, सर्वत्र समुच्चयाभिधानं समुदितानामेव मुक्तिमार्गत्वख्यापकम् , एष एव 'मार्ग' इति मार्गशब्दवाच्यः, अस्यैव मुक्तिप्रापकत्वात् 'प्रज्ञप्तः' प्रज्ञापितः 'जिनैः' तीर्थकृद्भिः वर-समस्तवस्तुव्यापि
गत्य०२८ तयाऽव्यभिचारितया च द्रष्टुं-प्रेक्षितुं शीलमेषां ते वरदर्शिनस्तैः, इह च चारित्रभेदत्वेऽपि तपसः पृथगुपादानमस्यैव क्षपणं प्रत्यसाधारणहेतुत्वमुपदर्शयितुं, तथा च वक्ष्यति-"तवसा (उ) विसुज्झइ"त्ति सूत्रार्थः॥ सम्प्रत्येतस्यैवानुवादद्वारेण फलमुपदर्शयितुमाह
नाणं च दंसणं चेव, चरित्तं च तवो तहा। एयं मग्गमणुप्पत्ता, जीवा गच्छंति सुग्गई ॥३॥ ६ पूर्वार्द्ध व्याख्यातमेव, 'एनम्' इत्यनन्तरमुक्तरूपं 'मार्ग' पन्थानम् 'अनुप्राप्ताः' आश्रिता जीवाः 'गच्छन्ति' यान्ति |
'सोग्गइ'न्ति सुगति-शोभनगति, प्रक्रमान्मुक्तिमिति सूत्रार्थः ॥ ज्ञानादीनि मुक्तिमार्ग इत्युक्तमतस्तत्खरूपमिहाभिधेयं, तच तद्भेदाभिधानेऽभिहितमेव भवतीतिमत्वा 'यथोद्देशस्तथा निर्देश' इति न्यायतो ज्ञानभेदानाह
॥५५६॥ तत्थ पंचविहं नाणं, सुअं आभिणिबोहियं । ओहियनाणं तइयं, मणनाणं च केवलं ॥ ४ ॥ ___ 'तत्र' इति तेषु ज्ञानादिषु मध्ये 'पञ्चविधं' पञ्चप्रकारं, किं तत् १-ज्ञानं, क एते पञ्च प्रकारा इत्याह-श्रूयते तदिति श्रुतं-शब्दमात्रं, तच द्रव्यश्रुतमेव, यत्पुनः शब्दमाकर्णयतः खयं वा वदतः पुस्तकादिन्यस्तानि वा चक्षुरा
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org