SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ | मस्य विशेषणस्योपन्यासः, अन्यथा हि मोक्षमार्गेण गतिरिति विग्रहे गतिं प्रति मार्गस्य कारणत्वं प्रतीयत एव | तद्रूपाणि चामूनि चत्वारि कारणानीति, तथा ज्ञानदर्शने लक्षणं-चिह्नं यस्याः सा ज्ञानदर्शनलक्षणा, यस्य हि तत्सत्ता तस्यावश्यंभाविनी मुक्तिरिति निश्चीयते, अत एव चानयोर्मूलकारणतां दर्शयितुमित्यमुपन्यासः, यद्वा | मोक्षे-उक्तलक्षणे मार्गः - शुद्धो 'मृजू शुद्धाविति धातुपाठात्तस्य गतिः - प्राप्तिस्तां ज्ञानदर्शने - विशेषसामान्योपयोग| रूपे लक्षणम् - असाधारणं खरूपं यस्याः सा तथा तां, न चेह निर्युक्तिकृता मार्गगत्योरन्यथाव्याख्यानात्तद्विरोधः, अनन्तगमपर्यायत्वात्सूत्रस्य, शिष्यासंमोहाय कस्यचिदेवार्थस्य तेनाभिधानात् शेषं प्राग्वदिति सूत्रार्थः ॥ यदुक्तं 'मोक्षमार्गगतिं शृणुते 'ति, तत्र मोक्षमार्ग तावदाह नाणं च दंसणं चेव, चरितं च तवो तहा । एस मग्गुत्ति पन्नत्तो, जिणेहिं वरदंसिहिं ॥ २॥ ज्ञायते - अवबुध्यतेऽनेन वस्तुतत्त्वमिति ज्ञानं तच सम्यग्ज्ञानमेव ज्ञानावरणक्षयक्षयोपशमसमुत्थं मत्यादिभेदं, दृश्यते तत्त्वमस्मिन्निति दर्शनम्, इदमपि सम्यग्ररूपमेव, दर्शनमोहनीयक्षयक्षयोपशमोपशमसमुत्पादितमर्हदभिहितजीवादितत्त्वरुचिलक्षणात्मशुभभावरूपम्, 'एव' अवधारणे भिन्नक्रमश्चोत्तरत्र योक्ष्यते, चरन्ति - गच्छन्त्यनेन मुक्तिमिति चरित्रम्, एतदपि सम्यग्रूपमेव चारित्रमोहनीयक्षयादित्रयप्रादुर्भूतसामायिकादिभेदं सदसत्क्रियाप्रवृत्तिनिवृत्तिलक्षणं, तपति पुरोपात्तकर्माणि क्षपणेनेति तपो - बाह्याभ्यन्तरभेदभिन्नं यदर्हद्वचनानुसारि तदेव समीची Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600236
Book TitleUttaradhyayansutram Part 03
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy