SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. बृहद्वृत्तिः 1144411 | 'पञ्चविधा' पञ्चप्रकारा प्रस्तावाद्गतिर्नारकतिर्यङ्गरामरमुक्त्याख्यगम्यभेदेन, मोक्षगत्या - सिद्धिगत्या त्वधिकारः, तस्या एबेहाभिधेयत्वादिति गाथाषट्कार्थः ॥ सम्प्रति यथाऽस्य मोक्षमार्गगतिरिति नाम तथा दर्शयितुमाहमुक्खो मग्गो अ गई वणिजइ जम्ह इत्थ अज्झयणे । तं एअं अज्झयणं नाय मुक्खमग्गगई ५०२ मोक्षः प्राप्यतया मार्गस्तत्प्रापणोपायतया चशब्दो भिन्नक्रमः ततः 'गतिश्च' सिद्धिगमनरूपा तदुभयफलतया 'वर्ण्यते' प्ररूप्यते यस्माद् 'अत्रे'ति प्रस्तुतेऽध्ययने 'तत्' तस्मादेतदध्ययनं ज्ञातव्यं 'मोक्षमार्गगतिः' इति मोक्षमा|र्गगतिनामकम्, अभिधेयेऽभिधानोपचारादिति भाव इति गाथार्थः ॥ उक्तो नामनिष्पन्नो निक्षेपः, सम्प्रति सूत्रानुगमे सूत्रमुच्चारणीयं तचेदम् — . मुक्खमग्गगई तच्चं (त्थं), सुणेह जिणभासियं । चउकारणसंजुत्तं, नाणंसणलक्खणं ॥ १ ॥ मोक्षणं मोक्षः - अष्टविधकर्मोच्छेदस्तस्य मार्गः - उक्तरूपस्तेन गतिः - अनन्तरोक्ता मोक्षमार्गगतिस्तां, कथ्यमानामिति गम्यते, 'तचं' ति 'तथ्याम्' अवितथां 'शृणुत' आकर्णयत 'जिनभाषितां' तीर्थकुदभिहितां, चत्वारि कार - णानि वक्ष्यमाणलक्षणानि तैः संयुक्ता-समन्विता चतुष्कारणसंयुक्ता तां, नन्वमूनि चत्वारि कारणानि कर्मक्षयलक्षणस्य मोक्षस्यैव, गतेस्तु तदनन्तरभावित्वात्स एवे (व ने ) ति कथं चतुष्कारणवतीत्वमस्या न विरुध्यते ?, उच्यते, व्यवहारतः कारणकारणस्यापि कारणत्वाभिधानाददोषः, अत एव चानन्तरकारणस्यैव कारणत्वमित्याशङ्काऽपोहार्थ Jain Education International For Personal & Private Use Only मोक्षमार्ग गत्य० २८ ॥५५५॥ www.jainelibrary.org
SR No.600236
Book TitleUttaradhyayansutram Part 03
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy