SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ | गलिगर्दभाः, यदि परमित्युपस्कारः, गर्दभग्रहणमतिकुत्साख्यापकं, ते हि खरूपतोऽप्यतिप्रेरणयैव प्रवर्त्तन्ते, ततस्तत्प्रे|रणयैव कालोऽतिक्रामति, न तु तदन्तरालसम्भव इति भावः, यतश्चैवं ततो गलिगर्दभानिव गलिगर्दभान् - दुः शिष्यां| स्त्यक्त्वा 'दृढ' बाढं प्रगृह्णामि' पाठान्तरतः 'परिगृह्णाति वा 'अङ्गीकुरुते, तदनुशासनरूपपलिमन्थत्यागतः, एकत्र सामान्येन गुरुरन्यत्र तु गर्गनामा, किन्तु 'तपः' अनशनादीति सूत्रद्वयार्थः ॥ ततः कीदृशः सन् किमसौ कुरुते ? इत्याहमिउमद्दवसंपन्ने, गंभीरे सुसमाहिए । विहरइ महिं महप्पा, सीईभूएण अप्पण ॥ १७ ॥ त्तिबेमि ॥ ॥ खलुंकिज्जं ॥ २७ ॥ 'मृदु:' वहिर्वृत्त्या विनयवान् 'मार्दवसंपन्नः' अन्तःकरणतोऽपि तादृगेव, कुशिष्यसन्निधौ हि मृदुरपि खरूपतोऽमृदुरेवासीत्, उक्तं हि प्राकू - " अणासवा थूलवया कुसीला, मिउंपि चंडं पकरंति सीसा" इति, अत एव 'गम्भीरः ' अलब्धमध्यः 'सुसमाहितः' सुष्ठु चित्तसमाधानवान् 'विहरति' अप्रतिबद्धविहारेण पर्यटति 'महीं' पृथ्वीं महात्मा शीलं - चारित्रं भूतः - प्राप्तः शीलभूतस्तेनात्मना उपलक्षितः, यतश्चैवं गुरोरपि खलङ्कत्यागत एव मार्दवादिगुणसंपन्नतेति खलङ्कृताया इहैवात्मनो गुरूणां च दोषहेतुत्वेन तत्यागतोऽशठतैव सेवितव्येत्यध्ययनतात्पर्यार्थः ॥ 'इति' परिसमाप्तौ ब्रवीमीति पूर्ववत् । उक्तोऽनुगमः, सम्प्रति नयास्तेऽपि प्राग्वदेव ॥ इत्युत्तराध्ययनश्रुतस्कन्धटीकायां शिष्यहितायां श्रीशान्त्याचार्यकृतायां खलुकीयं नाम सप्तविंशमध्ययनं समाप्तम् ॥ २७ ॥ 1 Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600236
Book TitleUttaradhyayansutram Part 03
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy