SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. खलुकी बृहद्वृत्तिः ॥५५३॥ याध्य.२७ दिशि दिशि यदृच्छाविहारिणो भवन्तीत्यर्थः । पूर्वकस्थानस्थितानामेव पर्यटनमुक्तम् , इह तु देशान्तरगमन इति न पौनरुक्तयं, प्रागेकप्रक्रमेऽपि यदिह बह्वभिधानं तदीदृशां भूयस्त्वख्यापनार्थमिति सूत्रषट्कार्थः ॥ इत्थं खलुङ्कस्येव समिलाभङ्गादिना दुःशिष्यस्य धृतिदुर्बलत्वादिना दुष्टत्वम् , अत एव खखामिलमासमाधिजनकत्वं चोक्तम्, इदानीं तैरेव प्रापितक्लमासमाधिर्यदसावचेष्टत तदाह| अह सारही विचिंतेइ, खलुंके हि समागए। किं मज्झ दुहसीसेहिं ?, अप्पा मे अवसीअई ॥१५॥ | जारिसा मम सीसा उ, तारिसा गलिगद्दहा । गलिगद्दहे चइत्ताणं, दढं पगिण्हई तवं ॥१६॥ 'अथेति क्लमासमाधिसम्भवानन्तरं सारथिरिव सारथिः स्खलितप्रवर्तकतयाऽऽचार्यादिः 'विचिन्तयति' ध्यायति, आचार्यसमाधिप्रतिसन्धानपक्षे तु 'अथे'त्यनन्तरोक्तचिन्तानन्तरं 'सारथिः स एव गर्गाचार्यः खलुबैरिव खलुङ्कः-दु:शिष्यैः, हेतौ तृतीया, श्रमं-खेदमागतः-प्राप्तः श्रमागतः, ते हि दुष्टगववदनेकधा प्रेर्यमाणा अपि सन्मार्गमगच्छन्तो गुरुश्रमहेतव एव भवन्ति, यदिवा समागतः खलुबैरिति च.सहार्थे तृतीया, यद्विचिन्तयति तदाह-किं १, न किञ्चि|दित्यर्थः, ममैहिकमामुष्मिकंवा प्रयोजनं सिध्यतीति गम्यते. कैः-दुष्टशिष्यैःप्रक्रमात्प्रेरितैः, किमेवमुच्यते इत्याहआत्मा 'मे' ममावसीदति, एतत्प्रेरणादिव्यग्रतया तथाविधखखकृत्याकरणेन, तत एतत्त्यागतो वरमुद्यतविहारेणैव विहृतमिति भावः। अथैतत्प्रेरणान्तराले खकृत्यमपि किंन क्रियते ? इत्याह-याशा मम शिष्याः, 'तुः' पूरणे, तादृशा ॥५५॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600236
Book TitleUttaradhyayansutram Part 03
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy