SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ ४न सा-श्राविका मा प्रत्यभिजानाति, अप्रत्यभिज्ञानाच न वेत्ति, नैव सा मह्यं दास्यति विवक्षितमौषधादीति गम्यते इति हेतुहेतुमद्भावेन व्याख्येयं, स्वतन्त्रतया वा न सा मां विजानाति, नापि सा मह्यं दास्यतीत्याह, यदिवा निर्गता गृहादिदानी सा भविष्यतीति मन्ये इति वक्ति, अथवा साधुः 'अन्यः' मद्यतिरिक्तः 'अत्र' विवक्षितप्रयोजने व्रजतु, किमहमेवैकः साधुरस्मीत्यभिधत्ते । अन्यच्च 'प्रेषिताः' क्वचित्तथाविधप्रयोजने प्रस्थापिताः 'पलिउंचंति'त्ति तत्प्रयोजनानिष्पादने पृष्टाः सन्तोऽपहुवते-क वयमुक्ताः?, गता वा तत्र वयं, न त्वसौ दृष्टेति, पठ्यते च-पोसिया पलिउंचंति' पोषिताः-आहारोपकरणादिना श्रुतादिना च पुष्टिं नीता अपडवते-यथा किमस्माकं गुरुभिः कृतमित्यपलपन्ति 'ते' दुःशिष्याः 'परियंति' पर्यटन्ति 'समन्ततः' सर्वासु दिक्षु, न गुरुसन्निधौ कदाचिदासते, मा कदाचिदेषां किञ्चित्कृत्यं भविष्यतीति, कथञ्चित्संनिधाने वा कर्तुं प्रवृत्तौ 'राजवेष्टिमिव' नृपतिहठप्रवर्तितकृत्यमिव ‘मन्यमानाः' मन-2 स्यवधारयन्तः कुर्वन्ति 'भ्रकुटीम्' आवेशवशकृतभ्रूत्क्षेपरूपां 'मुखे' वक्रे, अत्यन्तदुष्टताख्यापकमेतत् तदन्यवपुर्विकारोपलक्षणं च । अपरञ्च-'वाचिताः' शास्त्राणि पाठिताः, उपलक्षणत्वात्तदर्थं च ग्राहिताः, किमाचार्यान्तरसत्का एव सन्त उतान्यथेत्याह-'संगृहीताः' परिगृहीताश्चशब्दाद् दीक्षिता उपस्थिताश्च खयमिति गम्यते, एवेति पूरणे, 'भक्तपानेन' च सुस्निग्धमधुरादिना, सूत्रे च सुब्व्यत्ययात्तृतीयार्थे सप्तमी, पोषिताः' उपचितीकृताः, तथापि 'जातपक्षाः' उत्पन्नपतत्रा यथा हंसाः प्रकर्षण-अतिविप्रकृष्टदेशान्तरगमनलक्षणेन कामन्ति-गच्छन्ति प्रक्रामन्ति 'दिसोदिसिं'ति Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600236
Book TitleUttaradhyayansutram Part 03
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy