SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ खलुकी उत्तराध्य. याध्य.२७ बृहद्वृत्तिः ॥५५२॥ एकदा कुपितः कुपित एवास्ते, न कृत्येषु प्रवर्तते । भिक्षायामालस्यकः-आलस्यवान् भिक्षाऽऽलस्थिक एको न विहर्तुमिच्छति, एकोऽपमानभीरुः-भिक्षां भ्रमन्नपि न यस्य तस्यैव वेश्मनि प्रवेष्टुमिच्छति, यदिवा 'ओमाणं'ति प्रवेशः स च खपक्षपरपक्षयोस्तद्भीरुहिप्रतिबन्धेन मा मां प्रविशन्तमवलोक्यान्ये साधवः सौगतादयो वाऽत्र प्रवेश्यन्तीति, 'थद्धोत्ति स्तब्धोऽहङ्कारवान् , न निजकुग्रहान्नमयितुं शक्य इति प्रक्रमः, एकं च दुःशिष्यम् 'अणुसासंमि'त्ति आपत्वादनुशास्ति गुरुरिति गम्यते, यदा त्वाचार्य आत्मनः समाधि प्रतिसंधत्ते इति व्याख्या तदाऽनुशास्मीति व्याख्येयं, हेतुभिः कारणैश्चोक्तरूपैः । स चानुशिष्यमाणः किं कुरुते ? इत्याह-सोऽपि दुःशिष्यः 'अंतरभासिल'त्ति अन्तरभाषावान् , गुरुवचनापान्तराल एव स्वाभिमतभाषक इत्यर्थः, 'दोषमेव' अपराधमेव 'प्रादुष्क(प्रक)रोति' प्रकर्षण विधत्ते, न तु शिष्यमाणोऽपि तद्विच्छेदमिति भावः, पाठान्तरतश्च दोषमेव प्रभाषते, गुरूणामिति गम्यते, न चैतावता तिष्ठति, किन्त्वाचार्याणामुपलक्षणत्वादुपाध्यायादीनां द्वितीयपक्षे त्वाचार्याणां सतामस्माक मिति गम्यते, तदित्यनुशिष्टयभिधायकं वचनं वचः 'प्रतिकूलयति' विपरीतं करोति युक्त्युपन्यासेन विपरीतचेष्टया 8|वा 'अभीक्ष्णं' पुनः पुनः, न त्वेकदैवेत्यभिप्रायः। यथा प्रतिकूलयति तथाऽऽह-न सा 'मम'ति मां विजानाति, |किमुक्तं भवति ?-गुरुभिः कदाचित्प्रज्ञापितो यथा-आयुष्मन् ! ग्लानप्रतिजागरणं महनिर्जरास्थानमित्यमुकस्या अपि श्राविकायाः सकाशादमुकमौषधमाहारजातं वाऽऽनीयतां ततः स तया ज्ञायमानोऽपि प्रतिकूलतया प्राह ॥५५२॥ Bain Education Internasiona For Personal & Private Use Only www.jainelibrary.org
SR No.600236
Book TitleUttaradhyayansutram Part 03
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy