SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ 4% A 4 संधत्त इति व्याख्यायते, द्वितीयसूत्रे तु वहने 'वहमाणसत्ति अन्तर्भावितण्यर्थतया वाहयमानस्य विनीतगवादीन् । यथा कान्तारमतिवर्तते तथा योग्यान् शिष्यान् वाहयमानस्य-कृत्येषु प्रवर्तयतः संसारोऽतिवर्त्तते, तद्विनीततादर्शनादात्मनो विशेषतः समाधिसम्भवादितिभाव इति सोपस्कारतया व्याख्यायते, इत्थमात्मनः समाधिप्रतिसन्धानाय विनीतखरूपं परिभाव्य स एवाविनीतखरूपं यथा परिभावयति तथाऽऽह-खलुंकेत्यादिसूत्रद्वादशकस् । खलुङ्कान् योनिर्दिष्टखरूपः 'तुः' विशेषणे योजयति-योक्रयति वहन इति प्रक्रमः, स किमित्याह-विहंमाणो'त्ति सूत्रत्वाद् विशेषेण 'नन्' ताडयन् 'क्लाम्यति' श्रमं याति, पाठान्तरतः क्लिश्यति, अत एव 'असमाधि' चित्तोद्वेगरूपं 'वेदयते' अनुभवति 'तोत्रकः' प्राजनकः, स च 'से' इति तस्य खलुङ्कयोजयितुः "भज्यते' अतिताडनाद्भङ्गं याति । ततश्चातिरुष्टः सन् यत् कुरुते तदाह-एकं 'दशति' दशनैर्भक्षयति 'पुच्छे' वालधौ, 'एकम्' अन्यं गलिं 'विध्यति' प्राजनकारया तुदति, उपलक्षणं चैतदश्लीलभाषणादीनाम् , 'अभीक्ष्णं' पुनः पुनः, अथ किमेते कुर्वन्ति ? येन योजयितुरेवं निर्वेदहेतव इत्याह-'एकः' कश्चित् खलुको गौः 'भनक्ति' आमर्दयति, कां ?-'समिलां' युगरन्ध्रकीलिकाम् , 'एकः' अन्यस्तामभङ्क्त्वाऽपि उत्पथम्-उन्मार्ग प्रस्थित उत्पथप्रस्थितो भवतीति गम्यते । तथा 'एकः' अपरः। पतति 'पार्थेन' एकगात्रविभागेन, गम्यमानत्वाद् भूमौ, अन्यस्तु 'निवेसइ'त्ति निविशति-उपविशति, अपरश्च "णिविजए'त्ति शेते, परः 'उत्कूदते' ऊर्दू गच्छति 'उप्फिडइ'त्ति मण्डूकवत्प्लवते, अन्यः 'शठः' शाठ्यवान् , अन्यः %A4%A5% Jain Education Internationa For Personal & Private Use Only www.jainelibrary.org
SR No.600236
Book TitleUttaradhyayansutram Part 03
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy