________________
उत्तराध्य.
बृहद्वृत्तिः
॥५५०॥
|च पामरकादेः 'कान्तारम्' अरण्यम् 'अतिवर्त्तते' सुखातिवर्त्तितया खयमेवातिक्रमतीति दृष्टान्तः, उपनयमाह'योगे' संयमव्यापारे 'वहतः ' तथैव प्रवर्त्तमानस्य इहापि प्राग्वत्प्रवर्त्तकस्य चाचार्यादेः 'संसार' भवः अतिवर्त्तते' प्राग्वत् खयमेवातिक्रामति, इह च योगवहनमशठतेति सैव प्रागध्ययनार्थत्वेनोपवर्णिता फलोपदर्शनद्वारेणानेनोतेति भावनीयमिति सूत्रार्थः ॥ तदेवं कथममी अशठतांमासेव्य पुनर्ज्ञानादिसमाधिमन्तः शिष्याः स्युरिति तस्या गुणमभिधाय तद्गुणज्ञानमिव तद्विपक्षदोषावधारणमपि तदासेवनाङ्गमिति तद्विपक्षभूतशठतादोषा अपि वाच्याः, ते च कुशिष्यस्वरूपाभिधानत एवाभिधातुं शक्यन्ते इति निर्वेदकत्वं स्वयं दोषदुष्टत्वं च तत्खरूपमवगमयितुं दृष्टान्तो वर्णनायाह
खलुंके जो उ जोएइ, विहंमाणे किलिस्सई । असमाहिं च वेएइ, तुत्तओ य से भज्जई ॥ ३ ॥ एवं डसह पुच्छंमि, एगं विंधइऽभिक्खणं । एगो भंजइ समिल, एगो उप्पहपट्टिओ ॥ ४ ॥ एगो पडइ पासेणं, निवेसह निविजई। उक्कुदइ उप्फिडई, सढे बालगवी वए ॥ ५ ॥ माई मुद्रेण पडई, कुद्धे गच्छइ पडिवहं । मयलक्खेण चिट्ठाई, वेगेण य पहावई ॥ ६ ॥ छिन्नाले छिंदई सिल्लि, दुदंते भंजई जुगं । सेविय सुस्सुयाइत्ता, उज्जु| हित्ता पलायई ॥ ७ ॥
यद्वा धर्मकथाऽनुयोगत्वादस्य प्रथमसूत्रे गर्गनामाऽऽचार्यः कथञ्चित्कुशिष्यैर्भग्नसमाधिरात्मनः समाधिं प्रति
Jain Education International
For Personal & Private Use Only
खलुङ्की
याध्य. २७
॥५५०॥
www.jainelibrary.org