SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ R EPRESEASON थेरे गणहरे गग्गे, मुणी आसि विसारए । आइन्ने गणिभावम्मि, समाहिं पडिसंधए ॥१॥ धर्मेऽस्थिरान स्थिरीकरोतीति स्थविरः, उक्तं हि-"थिरकरणा पुण थेरो" गणं-गुणसमूहं धारयति-आत्मन्यव-II स्थापयतीति गणधरः 'गायः' गर्गसगोत्रः तथा मुणिति-प्रतिजानीते सर्वसावधविरतिमिति मुनिः आसीत्, अभूत् 'विशारदः' कुशलः सर्वशास्त्रेषु सङ्ग्रहोपग्रहयो, 'आकीर्णः' आचार्यगुणैराचारश्रुतसम्पदादिभिर्व्याप्तः। परिपूर्ण इतियावत्, 'गणिभावे' आचार्यत्वे स्थित इति गम्यते, 'समाहिं पडिसंधए'त्ति समाधानं समाधिः, सच द्विधा-द्रव्यतो भावतश्च, तत्र द्रव्यसमाधिर्यदुपयोगात्खास्थ्यं भवति, यथा(वा) पयःशर्करादिद्रव्याणां परस्परमवि|रोधः, भावसमाधिस्तु ज्ञानादीनि, तदुपयोगादेवानुपमखास्थ्ययोगात्, तत्रेह भावसमाधिवते, ततः समाधि 'प्रतिसंधत्ते' कर्मोदयात् त्रुटितमपि संघट्टयति, तथाविधशिष्याणामिति गम्यते इति सूत्रार्थः॥ समाधि च प्रतिसंदधद्यथाऽसौ शिष्येभ्य उपदिशति तथाऽऽह वहणे वहमाणस्स, कतारं अइवत्तए । जोए वहमाणस्स, संसारो अइवत्तए ॥२॥ उह्यतेऽनेन वोढव्यमिति वहनं-शकटादिस्तस्मिन् योजितस्येति गम्यते, 'वहमानस्य' सम्यक्प्रवर्त्तमानस्योत्तरत्र खलुङ्कग्रहणादिह विनीतगवादेरिति गम्यते, अतिक्रम्यातिक्रमणसम्बन्धे षष्ठी, वाहकाविनाभूतत्वाचास्य वाहकस्य १ स्थिरकरणात्पुनः स्थविरः Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600236
Book TitleUttaradhyayansutram Part 03
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy