________________
उत्तराध्य.
वृहद्वृत्तिः
॥५४९ ॥
क्षाश्चण्डा:- कोपनतया मार्दवेन चरन्ति मार्दविकाः - शतकृत्वोऽपि गुरुप्रेरिता न सम्यगनुष्ठानं प्रति प्रवर्त्तन्ते किन्त्वलसा एव, अमीषां द्वन्द्वः । अन्यच्च - ये किल 'गुरुप्रत्यनीकाः' आचार्यादिप्रतिकूलाः कूलवालकवत् 'शवलाः' शव - लचारित्रयोगात् 'असमाधिकारकाः ' गुर्वादीनामसमाधानजनकाः, अत एव पापाः 'अधिकरणकारकात्मानः ' कलह कर्तृस्वभावाः सदनुष्ठानं प्रति प्रेर्यमाणा युद्धायैवोपतिष्ठन्ते, 'जिनवचने' सर्वज्ञशासने ते किल खलुक्का इत्युच्यन्त इति शेषः । तथा 'पिशुनाः' सूचकाः, अत एव 'परोवयावि'त्ति परोपतापिनः 'भिन्नरहस्याः' विश्वस्तजनकथितरहस्यभेदिनः तथा 'परम्' अन्यं 'परिभवन्ति' येन केनचित्प्रकारेणाभिभवन्ति 'णिवेयणिज्ज' त्ति निवेदनीया निर्वेदं प्राप्य प्रक्रमाद्यतिकृत्येन, पाठान्तरतो निर्गता वचनीयाद् - उपदेशवाक्यात्मकाद् ये ते निर्वचनीयाः चः समुच्चये भिन्नक्रमश्च ततः 'शठाश्च' मायाविनः, पठ्यते च - 'णिवया णिस्सीलसढ' त्ति, सुगममेव, 'जिनवचने' श्रीसर्वज्ञशा - सने भणिता ये इति शेषः, ते प्रागभिहितखरूपाः किल खलुङ्का इति गाथाश्रयार्थः ॥ ततः किमित्याह - तम्हा खलुंकभावं चइऊणं पंडिएण पुरिसेणं । कायवा होइ मई उज्जुसभावंमि भावेणं ॥ ४९५ ॥ तस्मादित्थं दोषवन्तं खलुङ्कभावं त्यक्त्वा 'पण्डितेन' बुद्धिमता पुरुषेण उपलक्षणत्वात् रुयादिना च कर्त्तव्या भवति 'मतिः' बुद्धिः, क ? - 'ऋजुखभावे' आर्जवे भावे 'भावेन' परमार्थेन न तु बहिर्वृत्त्यैवेति गाथार्थः ॥ अवसितो नामनिष्पन्ननिक्षेपः, सम्प्रति सूत्रानुगमे सूत्रमुच्चारणीयं तच्चेदम्
Jain Education International
For Personal & Private Use Only
खलुङ्की
याध्य. २७
॥५४९ ॥
www.jainelibrary.org