________________
Xxxsacs
SASSACREAK
पाणिदयातवहेति 'प्राणिदयाहेतोः' वर्षादौ निपतत्यप्कायादिजीवरक्षायै तपः-चतुर्थादिरूपं तद्धेतोच, तथा शरीरस्य व्यवच्छेदः-परिहारस्तदर्थं च उचितकाले संलेखनामनशनं वा कुर्वन्, भक्तपानगवेषणं न कुर्यादिति सर्वत्र योज्यं, कारणत्वभावना चामीषां प्राग्वत् , तद्वेषणां च कुर्वन् केन विधिना कियत्क्षेत्र पर्यटेदित्याह-अवशेष भिक्षाप्रक्रमात्पात्रनिर्योगोद्धरितं, चशब्दस्य गम्यमानत्वादवशेषं च पात्रनिर्योगमेव, यद्वाऽपगतं शेषमपशेष, कोऽर्थः-समस्तं, 'भाण्डकम्' उपकरणं 'गिज्झ'त्ति गृहीत्वा चक्षुषा प्रत्युपेक्षेत, उपलक्षणत्वात्प्रतिलेखयेच्च, इह च
विशेषत इति गम्यते, सामान्यतो ह्यप्रत्युपेक्षितस्य ग्रहणमपि न युज्यत एव यतीनाम् , उपलक्षणत्वाचास्य तदाbollदाय 'परम्' उत्कृष्टम् 'अर्धयोजनात्' अर्धयोजनमाश्रित्य, ल्यब्लोपे पञ्चमी, परतो हि क्षेत्रातीतमशनादि भवेत् ,
विहरन्त्यस्मिन् प्रदेश इति विहारस्तं 'विहरए'त्ति हिरेत्-विचरेन्मुनिः । इत्थं विहृत्योपाश्रयं चागत्य गुर्वालोचनादिपुरस्सरं भोजनादि कृत्वा यत्कुर्यात्तदाह-चतुर्थी पौरुष्यां निक्षिप्य प्रत्युपेक्षणापूर्वकं बद्धा 'भाजनं' पात्रं स्वाध्यायं ततः कुर्यात् सर्वभावा-जीवादयस्तेषां विभावनं(क)-प्रकाशकं सर्वभावविभावक, पठ्यते च-सव्वदु४|क्खविमोक्खणं'ति प्राग्वत् , पौरुष्याः प्रक्रमाचतुर्थाः चतुर्भागे-चतुर्थाशे शेष इति गम्यते, वन्दित्वा 'ततः' इति
खाध्यायकरणादनन्तरं 'गुरुम्' आचार्यादि प्रतिक्रम्य कालस्य 'शय्यां' वसति 'तुः' पूरणे प्रतिलेखयेत्, ततश्च 'पासवणुच्चारभूमि चत्ति, भूमिशब्दस्य प्रत्येकमभिसम्बन्धात् प्रश्रवणभूमि उच्चारभूमि च प्रत्येकं द्वादशस्थण्डिलात्मिका
Jain Education Inter
n al
For Personal & Private Use Only
www.jainelibrary.org