________________
उत्तराध्य.
सामाचाध्ययन
बृहद्वृत्तिः ॥५४॥
SKCONGRESS
जीवितनिमित्तम्, अविधिना यात्मनोऽपि प्राणोपक्रमणे हिंसा स्याद् , अत एवोक्तम्-"भावियजिणवयणाणं ममत्त- रहियाण नत्थि हु विसेसो । अप्पाणंमि परंमि य तो वजे पीडमुभओऽवि ॥१॥" षष्ठं पुनरिदं कारणम्-यदुत धर्म- चिन्तायै च, भक्तपानं गवेषयेदिति सर्वत्रानुवर्तते, अत्र च धर्मचिन्ता-धर्मध्यानचिन्ता श्रुतधर्मचिन्ता वा,इयं शुभयरूपाऽपि तदाकुलितचेतसो न स्यात् ,आर्तध्यानसम्भवात् ,इह च यद्यपि वेदनोपशमनादीनां शाब्द्या वृत्त्या तदुपल|क्षितभोजनफलत्वेन प्रतीतिस्तथाऽपि तैर्विना तनिषेधसूचनादा. वृत्त्या कारणत्वमेवैषामुपदर्शितं भवति, अत एव षष्ठमित्यत्र कारणमेव सम्बन्धितम् , आह-एतत्कारणोत्पत्तौ किमवश्यं भक्तपानगवेषणं कर्त्तव्यमुतान्यथेत्याह'निर्ग्रन्थः' यतिः धृतिमान् धर्मचरणं प्रति 'निर्ग्रन्था' तपखिनी साऽपि न कुर्याद्भक्तपानगवेषणमिति प्रक्रमः, षडिश्चैव स्थानः 'तुः पुनरर्थे 'एभिः' अनन्तरं वक्ष्यमाणैः, किमित्येवमत आह-'अणइक्कमणाइ'त्ति सूत्रत्वाद् 'अनतिक्रमणं' संयमयोगानामनुल्लनं, चशब्दो यस्मादर्थे, यस्मात् 'से'त्ति तस्य निर्ग्रन्थस्य तस्या वा निर्ग्रन्थतायाः (न्थ्याः) 'भवति' जायते,अन्यथा तदतिक्रमणसम्भवात्। षट् स्थानान्येवाह-आतङ्को-ज्वरादिरोगस्तस्मिन् , 'उपसर्ग मिति खजनादिः कश्चिदुपसर्गमुन्निष्क्रमणार्थं करोति, विमर्शादिहेतोर्वा देवादिः, ततस्तस्मिन् सति, उभयत्र तनिवारणार्थमिति गम्यते, तथा तितिक्षा-सहनं तया हेतुभूतया, व विषये इत्याह-ब्रह्मचर्यगुप्तिषु, ता हि नान्यथा सोढुं शक्याः , तथा . १ भावितजिनवचनानां ममतारहितानां नास्त्येव विशेषः । आत्मनि परस्मिंश्च ततो वर्जयेत्पीडामुभयोरपि ॥ १॥
॥५४३॥
dain Education International
For Personal & Private Use Only
www.jainelibrary.org