________________
णिक्खेवोइत्यादि गाथाः पट् प्रायः प्रतीतार्थाः, सूत्रव्याख्याने च काश्विद्याख्यास्यन्ते, नवरं ' तद्यतिरिक्तं च' | ज्ञशरीरभव्यशरीरव्यतिरिक्तं च द्रव्यसाम शर्करादिषु, आदिशब्दात्क्षीरादिपरिग्रहः, ततश्च शर्कराक्षीरदधिगुडादीनां | यत्परस्परमविरोधेन व्यवस्थानं, भावे साम दशविधं 'खलुः' अवधारणे दशविधमेवेच्छामिध्यादिकं सामाचारीखरूपमिति गम्यते, भावसामत्वं चास्य तात्त्विकस्य क्षायोपशमिकादिभावरूपत्वात् परस्परमविरोधेन चावस्थानात्, तथा प्रत्येकप्ररूपणां वक्ष्ये इति प्रतिज्ञामभिधाय यत् प्ररूपणानभिधानं तदावश्यकनिर्युक्तौ कृतत्वात्तद्गाथयोरेव चैक| कर्तृकत्वेनेह लिखितत्वान्न दुष्टमिति भावनीयं, सूत्रक्रमोल्लङ्घनं तु यथाविषयं सर्वेषां सदाकृत्यत्वेन पूर्वापरभावस्याभाव| प्रदर्शनार्थ, तथा 'तबइरित्ते य णामणाईसु' न्ति सोपस्कारत्वान्नामनधावनादिषु सुकराणि यानि द्रव्याणि तानि तद्यतिरिक्तो द्रव्याचार उच्यते, यत उक्तम्- "णामणघोवणवासणसिक्खावणसुकरणाविरोहीणि । दव्वाणि जाणि लोए दवायारं वियाणाहि ॥ १ ॥” भावे दशविधाया इच्छादिभेदेन सामाचार्या आचरणा, अत्र बहुलग्रहणात्त्रियां युट् | एवमाप्रच्छनादिष्वपि भावत्वं तु जीवद्रव्यपर्यायत्वादस्येति गाथाषट्कार्थः ॥ सम्प्रत्यध्ययननामान्वर्थमाहइच्छाइसाममेसुं आयरणं वण्णिअं तु जम्हेत्थ । तम्हा सामायारी अज्झयणं होइ नायवं ॥ ४८६ ॥ १ नामनधावनवासनशिक्षणसुकरणाविरोधीनि । द्रव्याणि यानि लोके द्रव्याचारं विजानीहि ॥ १ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org