________________
ब्राह्मणेज्यस्तस्मिन 'इओ'त्ति 'इतः' ब्राह्मणार्थमुपस्कृतादाहारात् 'जायाहि'त्ति याचख, 'हुः' अवधारणे भिन्नक्रमश्च. ततश्च 'अन्यत एवं' अस्मद्यतिरिक्तात् भिक्षां याचखेति सम्बन्धः । 'परमट्ठदिट्ठसारोत्ति प्राकृतत्वाद् दृष्टः-उपलब्धः परमार्थाय-मोक्षाय सारः-प्रस्तावात्क्षान्त्यादिरूपः प्रधानोपायः परमार्थानां वा ज्ञानादीनां सारः-प्रधान येनासौ.दृष्टपरमार्थसारः, त्वं याजक! 'आउसो'त्ति आयुष्मन् ! कोमलामन्त्रणमेतत्, 'वयचरिय'त्ति इवशब्दस्यका गम्यमानत्वादूव्रतचर्येव भिक्षायै चया-पर्यटनं भिक्षाचयों दृष्टा' विहितत्वेनोपलब्धातीर्थकरादिभिरितिगम्यते.साधनां |चर्यत इति चरणम्-आचारस्तस्मिन् । किञ्च-'राज्यानि' सप्ताङ्गानि 'तुः समुच्चये भिन्नक्रमश्च 'अपहाय' त्यक्त्वा | 'राज्यश्रियं तु छत्रचामराधलङ्काररूपां किमित्याह-'अनुचरन्ति' पर्यटन्ति साधव इति प्रक्रमः भिक्षायै'भिक्षार्थ, किमिति-श्रमणस्य तुरिति यस्मात् 'मुक्तस्य'निःसङ्गस्य,अकारोऽलाक्षणिकः,भिक्षेत्युपलक्षणत्वाद्भिक्षाचर्या 'चरणं च' व्रतादिला चरणहेतुत्वेन 'करणं च' पिण्डविशुद्ध्यादिहेतुत्वेन, ततो विहितानुष्ठानरूपत्वाद्राजर्षिभिरपि सेवितत्वाच भिक्षाचर्यायास्तद्विधानार्थमहमिहायातो, भवांस्तु ददातु मा वा भिक्षामिति भावः । 'संजानन्' प्रत्यभिजानानः 'पकामाए'त्ति आर्षत्वात्प्रकामम्-अत्यर्थे । 'धर्मचरणेन' धर्मानुष्ठानेन भवेति गम्यते । 'सः' इति विजयघोषः सह मनसाचित्तेन वर्तत इति समनाः, किमुक्तं भवति ?-भावतो न तु वहिवृत्त्यैव, तस्य श्रामणस्यान्तिक इति गम्यत इति नियुक्तिगाथानवकार्थः ॥ 'इति' परिसमाप्तौ, ब्रवीमीति पूर्ववत् । उक्तोऽनुगमः, सम्प्रति नयाः, तेऽपि प्राग्वदेव ॥ है इत्युत्तराध्ययनश्रुतस्कन्धटीकायां श्रीशान्त्याचार्यविरचितायां पञ्चविंशमध्ययनं समाप्तमिति ॥२५॥
AASARAS
dain Education International
For Personal & Private Use Only
www.jainelibrary.org