________________
उत्तराध्य.
यज्ञीया
बृहद्धृत्तिः
ध्यय. २५
॥५३०॥
भवा-मनुष्यभवादयः, अन्यत्प्राग्वत् , 'दीर्घ' आयते 'संसारसागरे भवसमुद्रे, अनेन च विपर्ययदोष उक्तः । एतदेव समर्थयितुमाह-'उपलेपः' कर्मोपचयरूपो भवति 'भोगेसु' शब्दादिषु भुज्यमानेष्विति गम्यते, भोगी-शब्दादिभोगवान तथाऽभोगी 'न' नैव 'उपलिप्यते' कर्मणोपदिह्यते, ततश्च भोगी भ्रमति संसारे अभोगी विप्रमुच्यते,
H मुक्तो भवतीत्यर्थः, इह च गृहस्थभावे भोगित्वं निष्क्रमणे तु तदभाव इति गृहिभावस्य सदोषत्वान्निष्क्रमणमेव युक्तमित्युक्तं भवति । यथा भोगेषूपलेपस्तदभावे चान्यथात्वं तथा दृष्टान्तद्वारेण दर्शयितुमाह-'उल्लो त्ति आर्द्रः शुष्कश्चअनार्दो द्वावुभौ 'छूढ'त्ति क्षिप्तौ 'गोलको' पिण्डको मृत्तिकामयौ, द्वावपि 'आपतितो' प्राप्तौ 'कुड्ये भित्तौ, ततः किमित्याह-य आर्द्रः सो 'अत्रे'त्यनयोर्मध्ये 'लगति' श्लिष्यति प्रक्रमाकुड्ये । दान्तिकयोजनामाह-एवं लगन्ति प्रस्तावात्कर्मणा 'दुर्मेधसः' दुर्बुद्धयो ये नराः 'कामलालसाः' विषयलम्पटाः, विरक्तास्तुशब्दस्य पुनरर्थत्वाकामभोगपराङ्मुखाः पुनर्न लगन्ति, उत्तरत्र तुशब्दस्य भिन्नक्रमत्वेनैवकारार्थतया च नैव कर्मणा संश्लिष्यन्ते यथा शुष्को गोलकः, इह चान्वयानन्तरं व्यतिरेकः सुखेनैव बुध्यत इति तमुक्त्वा प्रथममुत्क्षिप्तस्यापि दृष्टान्तस्य पश्चादभिधानमिति सूत्रचतुष्टयार्थः॥ यदित्थं प्रज्ञापितोऽसौ कृतवांस्तदाह- एवं से विजयघोसे, जयघोसस्स अंतिए । अणगारस्स निक्खंतो, धम्म सुच्चा अणुत्तरं ॥४२॥ 'एवम्' उक्तप्रकारेण स विजयघोषो ब्राह्मणो जयघोषस्य 'अन्तिके' समीपे 'अनगारस्य' यतेः 'निष्क्रान्तः' प्रत्र
॥३०॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org