________________
'विदु'त्ति विद्वांसः, यद्वा हे 'विदः' यथाऽवस्थितवस्तुवेदिनो !, ज्योतिषाङ्गविदो यूयं, यूयं 'धर्माणां' सदाचाराणां पारगाः, भवतामेव तत्त्ववेत्तृत्वेन सर्वशास्त्रवारिधिपारदर्शित्वान्निर्वाहित सदाचारत्वाच्चेत्यभिप्रायः, तथा यूयं समर्था उद्धर्तु परमात्मानमेव च, युष्माकमेव तात्त्विकगुणसमन्वितत्वात्, 'तत्' तस्माद् 'अनुग्रह' भिक्षाग्रहणेनोपकारं | 'कुरुत' विधत्तास्माकं ' भिक्षो !' तपखिन् ! णमिति वाक्यालङ्कारे 'भिक्षूत्तम' यतिप्रधान !, यदिवा भिक्षूणामुत्त| मेति सम्बन्धः 'भिक्षु'त्तिं भिक्षो ! इति सूत्रचतुष्टयार्थः ॥ एवं ब्राह्मणेनोक्ते मुनिराह -
न कजं मज्झ भिक्खेणं, खिष्पं निक्खमसू दिया । मा भमिहिसि भयावत्ते, घोरे संसारसागरे ॥ ३८ ॥ उवलेवो होइ भोगेसु, अभोगी नोवलिप्पई । भोगी भ्रमह संसारे, अभोगी विप्पमुच्चई ॥ ३९ ॥ उल्लो सुक्को य दो छूढा, गोलया महियामया । दो वि आवडिया कुड्डे, जो उल्लो सोऽत्थ लग्गई ॥ ४० ॥ एवं लग्गंति दुम्मेहा, जे नरा कामलालसा । विरत्ता उ न लग्गंति, जहा से सुक्कगोल ॥ ४१ ॥
'ने'त्यादि सूत्रचतुष्टयम्, 'न कार्य' न प्रयोजनं मम ' भिक्खेणं'ति भिक्षया समुदानेन, किन्तु 'क्षिप्रं' शीघ्रं 'निष्क्राम' प्रत्रज 'द्विज !' ब्राह्मण !, भवन्निष्क्रमणेनैव मम कार्यमिति भावः, किमेवमुपदिश्यते इत्याह-' मा भ्रमीः' मा पर्यटीः, आर्पत्वाच्च सूत्रे लुटः प्रयोगः, यदिवा मा भ्रमीप्यसीत्यपि न दुष्टं, यतो माङि लुङक्तोऽयं तु मा, भयानि - | इहलोकभयादीनि आवर्त्ता इव आवर्त्ता यस्मिन्नसौ भयावर्त्तस्तत्र 'घोरे' रौद्रे, पठ्यते च - 'भवावत्ते दीहे' त्ति, अत्र च
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org