________________
14
उत्तराध्य.
PI एवं तु संसए छिन्ने, विजयघोसे य बंभणे । समुदाय तओ तं तु, जयघोसं महामुर्णि ॥ ३४॥ तुढे यायज्ञीया
|विजयघोसे, इणमुद्दाहु कयंजली। माहणत्तं जहाभूयं, सुह मे उवदंसियं ॥ ३५॥ तुन्भे जइया जन्नाणं, तुब्भे बृहद्वृत्तिः | वेयविदो विऊ । जोइसंगविऊ तुम्भे, तुम्भे धम्माण पारगा ॥३६॥ तुम्भे समत्था उद्धत्तुं, परं अप्पाणमेव
ध्यय.२५ ॥५२९॥
य। तमणुग्गहं करेहऽम्हं, भिक्खू णं भिक्खुउत्तमा ॥ ३७॥
सूत्रचतुष्टयं प्रतीतार्थम् , 'एवम्' उक्तप्रकारेण 'तुः' वाक्यान्तरोपन्यासे 'संशये' प्रागभिहितरूपे 'छिन्ने' अपनीते 'विजयघोषः' विजयघोषनामा 'चः' पूरणे 'ब्राह्मणः' माहणः पठ्यते च-'माहने 'समुदाय'त्ति आर्षत्वात् 'समादाय' सम्यग् गृहीत्वाऽवधार्येति योऽर्थः 'तयंति तकां प्रक्रमाजयघोषवाचं, 'तं तुति तं च जयघोष महामुनि, यथैष मम भ्राता एप एव च महामुनिरिति, किं कृतवानित्याह-'तुडे'इत्यादि, केचित्त्वनन्तरसूत्रे तृतीयपांदमेवं पठन्ति-'संजाणंतो तओ तं तु' अत्र च 'संजानन्' स एवायं मम सौदर्य इति प्रत्यभिजानन् , युक्तं चैतद्, यतो वक्ष्यति सूत्रस्पर्शिकनियुक्तो-'संजाणंतो भणई जयघोसं जायगो विजयघोसो'त्ति, तथा 'तुष्टः' परितोषितः 'च' पूरणे विजयघोषः 'इदं' वक्ष्यमाणम् 'उदाहु'त्ति 'उदाह' ब्रूते, तत्कालापेक्षया वर्तमानता, कृताञ्जलिःप्राग्वत्, यदाहं तदर्शयति-ब्राह्मणत्वं 'यथाभूतं' यथाऽवस्थितं सु इति-शोभनं यथा भवत्येवं तिष्ठन्तीति सुष्टु, औणादिकः कुप्रत्ययः, 'मे' मम 'उपदर्शितम्' इति प्रकटितम् । किञ्च-यूयं 'जइय'त्ति यष्टारो यज्ञानां, यूयं 'वेदविदः' वेदज्ञाः
॥५२९॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org