SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ * ********* * बाह्याभ्यन्तरभेदभिन्नेन भवति तापसः, सर्वत्राभिधानान्यथाऽनुपपत्तिरिह हेतुः, ननु चान्वर्थवत्त्वेऽभिधानस्यैष हेतुः, तच्चान्यथाऽपि डित्थादिवत्स्यादत आह-'कर्मणा' क्रियया ब्राह्मणो भवति, उक्तं हि-"क्षमा दानं दमो ध्यानं, सत्यं शौचं धृति (दया घृणा। ज्ञानविज्ञानमास्तिक्यमेतद्राह्मणलक्षणम् ॥१॥” तथा 'कर्मणा' क्षतत्राणलक्षणेन भवति क्षत्रियः, वैश्यः 'कर्मणा' कृषिपाशुपाल्यादिना भवति, शूद्रो भवति तु 'कर्मणा' शोचनादिहेतुप्रैषादिसंपादनरूपेण, ६ कर्माभावे हि ब्राह्मणादिव्यपदेशा नाऽऽसन्नेवेति, ब्राह्मणप्रक्रमेऽपि यच्छेषाभिधानं तन्मा भूनिरनुक्रोशतेति व्याप्ति-2 दर्शनार्थ, किञ्च-भवन्मतेऽप्युक्तम्-“एकवर्णमिदं सर्व, पूर्वमासीधुधिष्ठिर! । क्रियाकर्मविभागेन, चातुर्वर्ण्य व्यवस्थितम् ॥१॥" किमिदं खमनीषिकयैवोच्यते इत्याह-एतान्' अनन्तरोक्तानहिंसाद्यर्थान् 'प्रादुरकार्षीत्' प्रकटितवान् 'बुद्धः' अवगततत्त्वः, पठ्यते च-एए पाउकरा धम्मा' 'एते' उक्तरूपाः 'प्रादुष्कराः' नैर्मल्यकारितयाऽऽत्मनः प्रकाशहेतवः 'धर्माः' अहिंसादयो, यैर्भवति 'स्नातकः' केवली सर्वकर्मभिर्विनिर्मुक्तः, इह च प्रत्यासनमुक्तितया सर्वकर्मविनिर्मुक्तः,सुब्ब्यत्ययात्प्रथमार्थे द्वितीया,'त'मित्यभिहितगुणं तत्त्वतः स्नातकं वा वयं ब्रूमो ब्राह्म-1 णम् । सम्प्रत्युपसंहर्तुमाह-एवम्' उक्तप्रकारेण गुणैः-अहिंसादिभिः समायुक्ताः-समन्विता गुणसमायुक्ता ये भवन्ति | 'द्विजोत्तमाः' ब्राह्मणप्रधानास्ते 'समर्थाः' शक्ताः 'तुः' पूरणे उद्धर्दा संसारादिति गम्यते अर्थान्मुक्तिपदे व्यवस्थापयितुं 'परम्' आत्मव्यतिरिक्तमात्मानमेव वेत्यष्टादशसूत्रगर्भार्थः॥ अभिधाय चेदमवस्थितो भगवान् , ततश्च * * ******* * Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600236
Book TitleUttaradhyayansutram Part 03
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy