________________
उत्तराध्य. बृहद्वृत्तिः ક૨૮.
विधिनेतिभावः, किमित्याह-'न' नैव 'त'मिति प्रक्रमाद्वेदाध्येतारं यष्टारं वा 'त्रायन्ते' रक्षन्ति भवादिति गम्यते, यज्ञीयाकिंविशिष्टं ?-'दुःशीलं' ताभ्यामेव हिंसादिप्रवर्त्तनेन दुराचारं, किमिति ?-यतः 'कर्माणि' ज्ञानावरणादीनि 'बल
ध्यय.२५ वन्ति' दुर्गतिनयनं प्रति समर्थानि 'इहे'ति भवदवगमविषये वेदाध्ययने यजने च भवन्तीति गम्यते, पशुबन्धादिप्रवर्त्तनेन तयोस्तद्बलायकत्वादिति भावः, अनेन दुर्गतिहेतुत्वात्स्वर्गहेतुत्वमप्यनयोः प्रत्युक्तम् , उक्तं हि-"यूपं छित्त्वा पशुं हत्वा, कृत्वा रुधिरकर्दमम् । यद्येवं प्राप्यते खर्गो, नरके केन गम्यते ? ॥१॥" अतो नैतद्योगाद्वाह्मणः पात्रभूतो भवति, किन्त्वनन्तराभिहितगुण एवेति भावः । अन्यच्च-नेति निषेधे 'अपिः' पूरणे 'मुण्डितेन' केशापनयनात्मकेन समं मनोऽस्येति निरुक्तविधिना श्रमणः-निर्ग्रन्थः, 'न' नैव ॐकारो(रणो)पलक्षणत्वाद् 'ॐ भूर्भुवःस्ख'रित्याधुच्चारणरूपेण ब्राह्मणः, तथा न मुनिररण्यवासेन, कुशो-दर्भविशेषस्तन्मयं चीवरं कुशचीवरं, वल्कलोपलक्षणमेतत् , तेन तापसः, अनूदितं चैतद्वाचकैः-"मुण्डनात् श्रमणो नैव, संस्काराद्वाह्मणो न वा । मुनि रण्यवासित्वाद्वल्कलान्न च तापसो॥१॥" भवतीति सर्वत्र शेषः। कथममी तर्हि संभवन्तीत्याह-'समतया' रागद्वेषाभावरूपया श्रमणो भवति, ब्रह्मणश्चरणं ब्रह्मचर्य, ब्रह्म च द्विधा, यत उक्तम्-"द्वे ब्रह्मणी वेदितव्ये, शब्दब्रह्मपरं च यत् । ॥५२८॥ शब्दब्रह्मणि निष्णातः, परं ब्रह्माधिगच्छति ॥१॥" एतानि च पराणि ब्रह्माणि वरिष्ठानि यानि प्रागहिंसादीन्युक्तानीति, एतद्रूपमेवेह ब्रह्मोच्यते, तेन ब्राह्मणो भवति, 'ज्ञानेन' हिताहितावगमरूपेण मुनिर्भवति 'तपसार
dain Education International
For Personal & Private Use Only
www.jainelibrary.org