________________
उत्तराध्य.
बृहद्वृत्तिः
॥६८७ ॥
दवस्तुत्वं तदवस्तुत्वे चावस्तुनो जन्यत्वायोगात्तत्पूर्वस्यापि क्षणस्य एवं पूर्वपूर्वक्षणानामपि सौगतस्याभावरूपतैव प्राप्तेति पूर्वसन्तानमिच्छतो मुक्तेरपि भावरूपता बलादायाति, तथा सर्वथाऽऽत्मगुणोच्छित्तिरूपतायां निःश्रेयसस्यात्मनोऽप्यभावप्रसक्तिः, सर्वथा गुणाभावे हि गुणिनोऽप्यभाव एव, अशेषरूपाद्यभाव इव घटादेरिति सूक्ष्मधिया | भावनीयमिति सूत्रार्थः ॥ उक्तग्रन्थेनावगतमपि विप्रतिपत्तिनिराकरणार्थ पुनः क्षेत्रं स्वरूपं च तेषामाह
लोएगदेसे ते सब्वे, नाणदंसणसन्निया । संसारपारनिच्छिन्ना, सिद्धिं वरगईं गया ॥ ६७ ॥ लोकैकदेशे पाठान्तरतो लोकाप्रदेशे वोक्तरूपे 'ते' इति सिद्धाः, अनेन 'मुक्ताः सर्वत्र तिष्ठन्ति, व्योमवत्ता| पवर्जिताः' इत्यपास्तं भवति, सर्वगतत्वे ह्यात्मनामेतद्भवेत्, तथात्वे च सर्वत्र सर्वदा वेदनादिप्रसङ्गः, तथा 'सर्वे - | निरवशेषा ज्ञानदर्शनसञ्ज्ञिताः संसारस्य पारः - पर्यन्तस्तं निस्तीर्णाः - पुनरागमनाभावलक्षणेनाधिक्येनातिक्रान्ताः सिद्धिं वरगतिं गताः इति प्राग्वत्, इह चाद्येन विशेषणेन मा भूत्केषाञ्चिज्ज्ञानसज्ञा परेषां दर्शनसञ्चैव केवला, किन्तु अपि सर्वेषामिति, द्वितीयेन - " ज्ञानिनो धर्मतीर्थस्य, कर्त्तारः परमं पदम् । गत्वाऽऽगच्छन्ति भूयोऽपि, भवं तीर्थनिकारतः ॥ १ ॥” इति मते तेषामनिष्ठितार्थदोषप्रसङ्गेन पुनरावृत्तिरिति, तृतीयेन तु क्षीणकर्मत्वेन खव| शत्वादिविशेषणवच्त्वेऽप्येषा स्ववशस्यानभिसन्धिः कृतकृतत्यस्य च यथाखभावेनास्योपयोग इष्टः, 'तथागतिः स्यात्स्व| भावेने 'ति वचनादुत्पत्तिसमये सत्क्रियत्वमप्यस्तीति ख्याप्यते, इदं च सुत्रं यत्र दृश्यते तत्रेत्थं नेयं, प्रत्यन्तरेषु च न
Jain Education International
For Personal & Private Use Only
जीवाजीव
विभक्ति०
३६
||६८७॥
www.jainelibrary.org