SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ दृश्यत एवेति सूत्रार्थः ॥ इत्थं यदुक्तं "संसारत्था य सिद्धा य, दुविहा जीवा वियाहिय"त्ति तत्र सिद्धा उक्ताः, साम्प्रतं संसारिण आह संसारत्था उ जे जीवा, दुविहा ते वियाहिया। तसा य थावरा चेव, थावरा तिविहा तहिं ॥१८॥ संसारस्था इति प्राग्वत्तुशब्दः सिद्धेभ्यः सङ्ख्याकृतविशेषद्योतको ये जीवा द्विविधास्ते व्याख्याताः, द्वैविध्यमेवाह-त्रसाश्च स्थावराश्चैव, स्थावराः 'त्रिविधाः' त्रिप्रकाराः 'तस्मिन्' इति द्वैविध्ये सति, अल्पवक्तव्यत्वाच्च पश्चानिर्देशेऽपि प्रथमतः स्थावराभिधानमिति सूत्रार्थः॥ तत्रैविध्यमेवाह| पुढवी आउजीवा य, तहेव य वणस्सई । इच्चेए थावरा तिविहा, तेसिं भेए सुणेह मे ॥ ६९॥ | 'पुढवीआउजीवा य'त्ति जीवशब्दः प्रत्येकमभिसंबध्यते ततः पृथिव्येव जीवाः पृथिवीजीवाः आपो-जलं ता एव जीवा अब्जीवाश्च, तथैव च 'वणस्सई'त्ति प्रक्रमाद्वनस्पतिजीवाः, ननु पृथिव्यादीनि जीवशरीराणि न त्वेतान्येव जीवाः, काठिन्यादिलक्षणानि ह्यमूनि जीवाः पुनरुपयोगलक्षणास्तत्कथं पृथिव्यादीन्येव जीवा इत्युक्तम् ?, उच्यते, जीवशरीरयोरन्योऽन्यानुगतत्वेन विभागाभावादेवमुक्तं, न चैतदनार्ष, यत उक्तम्-"अन्नोऽन्नाणुगयाणं इमं च तं चित्ति विभयणमजुत्तं" इत्यादि 'इति' इत्युक्तप्रकारेण 'एते' पृथिव्यादयः स्थावरास्त्रिविधाः । उत्तरग्रन्थसम्बन्धनार्थ १ अन्योऽन्यानुगतयोरिदं च तच्चेति विभजनमयुक्तं SMSROSCORCHAR Jain Education International For Personal & Private Use Only www.janelibrary.org
SR No.600236
Book TitleUttaradhyayansutram Part 03
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy