________________
GANGACAAAAKASARA
त्वाद्विशेषणस्य परनिपातः ज्ञानदर्शने उक्तरूपे ते एव सज्ञा-सम्यग्बोधरूपा सञ्जातैषामिति तारकादेराकृतिगणवादितचि ज्ञानदर्शनसज्ञिताः-ज्ञानदर्शनोपयोगवन्तो न विद्यते तुलेव तुला-इयत्ता परिच्छेदहेतुरस्येति अतुलम. अपरिमितत्वात , उक्तं हि-"सिद्धस्स सुहो रासी सबद्धापिंडितो जइ हवेजा। सोऽणंतवग्गभइतो सबागासे न माइजा॥१॥” इति, सुखं-शर्म समित्येकीभावेन दुःखलेशाकलङ्कितत्वलक्षणेन प्राप्ताः, सुखमेव पुनर्विशिनष्टिउपमा यस्य 'नास्ति तु' न विद्यत एव, यदुक्तम्-"लोके तत्सदृशो ह्यर्थः, कृत्स्नेऽप्यन्यो न विद्यते । उपमीयेत तयेन, तस्मान्निरुपमं स्मृतम् ॥१॥" न च विषयाभावतस्तत्र सुखशब्दाभिधेयाभाव एवेत्याशङ्कनीयं, चतुरर्थत्वात्तस्य, उक्तं हि-लोके चतुबिहार्थेषु, सुखशब्दः प्रयुज्यते । विषये वेदनाऽभावे, विपाके मोक्ष एव च ॥१॥ सुखो वह्निः सुखो वायुर्विषयेष्विह कथ्यते । दुःखाभावे च पुरुषः, सुखितोऽस्मीति मन्यते ॥२॥ पुण्यकर्मविपाकाच, सुखमिष्टे
न्द्रियार्थजम् । कर्मक्लेशविमोक्षाच, मोक्षे सुखमनुत्तमम् ॥३॥” ततश्च मोक्षस्यैव तत्र सुखशब्दाभिधेयत्वादसम्भव है एवाशङ्कायाः, इह च जीवघना इत्यनेन सौगताभिमतमभावरूपत्वं मुक्तेः उत्तरविशेषणद्वयेन च 'सुखदुःखबुद्धीच्छा
द्वेषप्रयत्नधर्माधर्मसंस्कारा नवात्मगुणास्तेषामत्यन्तोच्छित्तिनिःश्रेयसमिति वचनादचेतनत्वासुखित्वे च सिद्धस्य नैयायिकाद्यभिमते निराकुरुते, अभावरूपत्वे हि मुक्तेरर्थक्रियासामर्थ्यलक्षणत्वाद्वस्तुनोऽन्त्यक्षणस्य क्षणान्तराजनना
१ सिद्धस्य सुखराशिः सर्वाद्धापिण्डितो यदि भवेत् । सोऽनन्तवर्गभक्तः सर्वाकाशे न मायात् ॥ १॥
For Personal & Private Use Only
Jain Education International
www.jainelibrary.org