________________
RSS RESEARCARE
पूर्वभावप्रज्ञापनीयनयापेक्षयाऽनेकधा सिद्धानभिधाय सम्प्रति प्रत्युत्पन्नभावप्रज्ञापनीयनयापेक्षया तेषामेव प्रतिघातादिप्रतिपादनायाह
कहिं पडिहया सिद्धा, कहिं सिद्धा पइडिया। कहिं बुदि चइत्ता णं, कत्थ गंतूण सिज्झई ॥१५॥ ___ अलोए पडिहया सिद्धा, लोयग्गे य पइट्ठिया । इहं बुदिं चइत्ता णं, तत्थ गंतूण सिज्झई ॥५६॥
'केति कस्मिन् 'प्रतिहताः' स्खलिताः, कोऽर्थः १-निरुद्धगतयः, सिद्धाः, तथा 'क' कस्मिन् सिद्धाः 'प्रतिष्ठिताः' साद्यपर्यवसितं कालं स्थिताः, अन्यच्च-क्क 'वुन्दि' शरीरं त्यक्त्वा कुत्र गत्वा 'सिज्झइत्ति वचनव्यत्ययात् 'सियन्ति' निष्ठितार्था भवन्ति । एतत्प्रतिवचनमाह-'अलोके' केवलाकाशलक्षणे 'प्रतिहताः' स्खलितास्तत्र धर्मास्तिकायस्याभावेन तेषां गतेरसम्भवात्, उक्तं च-"ततोऽप्यूद्ध गतिस्तेषां, कस्मानास्तीति चेन्मतिः । धर्मास्तिकायस्याभावात्, स हि हेतुर्गतेः परः॥ १ ॥" तथा 'लोकाग्रे च' लोकस्योपरि विभागे 'प्रतिष्ठिताः' सदाऽवस्थिताः, आह-ऊर्द्ध गमनाभावेऽप्यधस्तिर्यग्या गमनसम्भवेन कथं तेषां तत्र प्रतिस्थानम् ?, उच्यते, क्षीणकर्मत्वात्तेषां, कर्माधीनत्वाचाधस्तिर्यग्गमनयोः, तदुक्तम्-"अधस्तिर्यगथोड़े च, जीवानां कर्मजा गतिः । ऊर्द्धमेव तु ताद्धाद् , भवति क्षीणकर्मणाम् ॥१॥"'इहे' त्यनन्तरप्ररूपिते तिर्यगुलोकादौ 'बुन्दि' शरीरं त्यक्त्वा 'तत्र' इति लोकाग्रे गत्वा 'सिज्झति'त्ति सिध्यति, गत्वेति च मुखं व्यादाय स्वपितीत्यादिवत्क्त्वाप्रत्ययः, पूर्वापरकालविभागस्खेहासम्भवात्, यत्रैव हि
Jain Education International
For Personal & Private Use Only
im.jainelibrary.org