________________
उत्तराध्य. बृहद्धृत्तिः ॥६८३॥
MUSICAS
सिझंते जुगवं दुवे । चत्तारि जहन्नाए, जवमज्झहुत्तरं सयं ॥ ५४॥ चउरुहुलोए य दुवे समुद्दे, तओ जले जीवाजीव वीसमहे तहेव । सयं च अट्ठत्तर तिरियलोए, समएणेगेण उ सिज्झई धुवं ॥५५॥
विभक्तिः __'दश' दशसङ्ख्याश्चशब्द उत्तरापेक्षया समुच्चये 'नपुंसकेषु' वर्द्धितचिर्पितादिषु विंशतिः 'इत्थीयासु यत्ति स्त्रीषु च पुरुषेषु चाष्टभिरधिकं शतमष्टशतं 'समयेन' अविभागकालरूपेण 'एकेन' एकसङ्खयेन, प्रकृत्यादित्वात्तृतीया, 'सियति' निष्ठितार्थ भवति, चत्वारो गृहिलिङ्गेऽन्यलिङ्गे दशैव च, खलिङ्गेन चाष्टशतं समयेनकेन सिध्यति । 'उत्कृटावगाहनायां तु' उक्तरूपायां सिध्यतः 'युगपत्' एककालं 'द्वौ' द्विसङ्ख्यौ 'चत्वारः' चतुःसङ्ख्याः 'जहन्नाए'त्ति जघन्यावगाहनायां "जवमज्झत्ति यवमध्यमिव यवमध्या-मध्यमावगाहना तस्याम् 'अष्टोत्तरं शतम्' अष्टोत्तरशतसङ्ख्याः , यवमध्यत्वं चैषां मध्यमावगाहनायामुत्कृष्टजघन्यावगाहनयोर्मध्यवर्त्तित्वात् , तदपेक्षया च बहुतरसङ्ख्यात्वेन स्थूलतयैव भासमानत्वादिति भावनीयमिति । चत्वार ऊर्द्धलोके च द्वौ समुद्रे त्रयो जले विंशतिः 'अधः' इत्यधोलोके 'तथैव' तेनैव प्रकारेण शतं च 'अष्टोत्तरम्' अष्टाधिकं तिर्यग्लोके समयेनकेन तु सिद्ध्यति, तुशब्दश्चशब्दश्च क्वचित्पूरणे क्वचिच्च पुनरर्थे व्याख्येयः । एतत्सूत्रस्थाने चान्ये सूत्रद्वयमित्थं पठन्ति-"चउरो उडलोगमि,
॥६८३॥ वीसपहुत्तं अहे भवे । सयं अट्ठोत्तरं तिरिए, एगसमएण सिज्झई ॥ १॥ दुवे समुद्दे सिझंती, सेसजलेसु ततो । जणा। एसा उ सिज्झणा भणिया, पुब्वभावं पडुच उ ॥२॥" एतच व्याख्यातप्रायमेवेति सूत्रचतुष्टयाथैः ॥ इत्थं
SES
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org