SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ 4%A4 वृत्तिर्भवेत् , तत्सद्भावश्च बाधकामावेन वा कल्प्येत समासान्तराभावेन वा ?, न तावद् बाधकाभावेन, तत्र हि || स्त्रीशब्दस्य पुरुषाभिलाषात्मको भाव एवार्थो भवेत् , तथा च स्त्रीनिर्वाणसूत्रे-किं स एव साक्षादर्थस्तदुपलक्षितं वा शरीर ?, यदि स एव तदा किं तदैव तद्भावो विवक्ष्यते भूतपूर्वगत्या वा?, तत्र यदि तदैव तदा निर्वाणावस्थायामपि । वेदसम्भवो, न चैतदागमिकम् , अथ भूतपूर्वगत्या तदा देवादीनामपि निर्वाणप्राप्तिः, तथा च "सुरणारएसु चत्ता-2 दारि होति" इत्याद्यागमविरोधः, तेष्वपि भूतपूर्वगत्या चतुर्दशगुणस्थानसम्भवात्, अथ तदुपलक्षितं [वा] पुरुषशरीरं तदाऽसौ तदुपलक्षणं तत्र नियतवृत्तिरनियतवृत्तिा ?, यदि नियतवृत्तिस्तदाऽऽगमविरोधः, परिवर्त्तमानतयैव पुरुपशरीरे वेदोदयस्य तत्राभिधानात्, न चानुभवोऽप्येवमस्ति, अथानियतवृत्तिः कथमसौ तदुपलक्षणम् ?, अथैवं रूपमपि गृहादिषु काकाद्युपलक्षणमीक्ष्यत इत्यत्रापि तथोच्यते, एवं सति स्त्रीशरीरेऽपि कदाचित्पुरुषवेदस्योदयसदम्भवात् स्त्रीणामपि निर्वाणापत्तिः, यथा हि पुरुषाणां भावतः स्त्रीत्वमेवं स्त्रीणामपि भावतः पुरुषत्वसम्भवोऽस्ति, भाव एव च मुख्यं मुक्तिकारणं, तथा च यद्यपकृष्टेनापि स्त्रीत्वेन पुरुषाणां निर्वाणमेवमुत्कृष्टेन भावपुरुषत्वेन स्त्रीणा मपि किं न निर्वाणम् ? इति, न च समासान्तरासम्भवेन स्त्रीवेद इत्यत्र समानाधिकरणसमासकल्पनं, स्त्रिया वेदः टू स्त्रीवेद इति षष्ठीसमासस्यापि सम्भवात्, न चास्य स्त्रीशरीरपुरुषाभिलाषात्मकवेदयोः सम्बन्धाभावेनायुक्तत्वमिति १ सुरनारकेषु चत्वारि भवन्ति (गुणस्थानानि) CAREERSIC 5 -A5 % Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600236
Book TitleUttaradhyayansutram Part 03
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy