SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. बृहद्वृत्तिः ॥६८१ ॥ यप्रकर्षस्यासम्भवो यतो यत्प्रकृष्यमाणहानिकं तत्क्वचित्सम्भविहानिप्रकर्षनिष्टमपि दृष्टं यथा हेमनि कालिकाकिहादि, प्रकृष्यमाणहानयश्च रागादयः, तथैव तेषां प्राणिषु प्रतीतत्वात् नन्वेतत्स्त्रीष्वपि समानमिति, नाप्यागमस्य तस्य | प्रस्तुतस्यापि साक्षात्स्त्रीनिर्वाणाभिधायित्वेनार्थतस्तत्कारणाचैकल्यसाधकत्वात् न च स्त्रीशब्दस्यान्यार्थत्वं परिकल्पनीयं तद्धि लोकरूढितः आगमपरिभाषातो वा भवेत् ?, न तावल्लोकरूढितः, लोके हि यस्मिन्नर्थे यः | शब्दोऽन्वयव्यतिरेकाभ्यां वाचकत्वेन दृश्यते स तस्यार्थो, यथा गवादिशब्दानां सास्त्रादिमदादयो, न च स्त्रीशब्दस्य | स्तनादिमदाकारमर्थमन्तरेणान्यस्यान्वयव्यतिरेकाभ्यां वाच्यत्वेन प्रतीतिरस्ति, उक्तं च- “स्तनजघनादिव्यङ्गये स्त्रीशब्दोऽर्थे न तं विहायैषः । दृष्टः क्वचिदन्यत्र त्वग्निर्माणवकवद्वौणः ॥ १ ॥” इति नाप्यागमपरिभाषातो यतो | नागमे कचित्स्त्रीशब्दस्य परिभाषितोऽर्थो यथा व्याकरणे 'वृद्धिरादैजि' (पा० १-१ - १ ) ति वृद्धिशब्दस्यादैचौ, दृश्यते | चागमेऽपि लोकरूढ एवार्थे स्त्रीशब्दः "इत्थीओ जंति छट्ठि" इत्यादौ, न च तत्राप्यर्थान्तरपरिकल्पना, बाधकं विना तदनुपपत्तेः, उक्तं च- "परिभाषितो न शास्त्रे मनुजीशब्दोऽथ लौकिकोऽधिगतः । अस्ति च न तत्र बाधा स्त्रीनिर्वाणं ततो न कुतः ? ॥ १ ॥” अथ दृष्ट एवागमे पुरुषाभिलाषात्मनि वेदाख्ये भावे स्त्रीशब्दः, इदमपि कुतो निश्चितं ?, किं तावत्स्त्रीशब्द इतिशब्दश्रवणमात्रात्स्त्रीत्वस्य पल्यशतपृथक्त्वावस्थानाभिधानतो वा १, न तावत्स्त्रीवेद इति श्रवणमात्रत इति युक्तं, यदीह स्त्री चासौ वेदश्व स्त्रीवेद इति समानाधिकरणसमासो भवेत्तदा स्त्रीशब्दस्यार्थान्तरे Jain Education International For Personal & Private Use Only जीवाजीव विभक्ति० ३६ ॥६८१॥ www.jainelibrary.org
SR No.600236
Book TitleUttaradhyayansutram Part 03
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy