________________
नारदादीनां मायादिप्रकर्षवत्त्वम् , अतो न तासां पुरुषेभ्योऽपकृष्यमाणत्वेन कारणावैकल्यस्य हेतोरसिद्धता, यदपि निर्वाणस्थानाद्यप्रसिद्धत्वेनेत्युक्तं, तदप्यसाधकं, यतो न निर्वाणस्थानादिप्रसिद्धिः कारणावैकल्यस्य कारणं व्यापकं वा येन तन्निवृत्तौ तस्य निवृत्तिः, अथाऽऽत्थ यदि स्त्रीणां मुक्तिकारणावैकल्यमभविष्यत् मुक्तिरप्युदपत्स्यत, तथा च तत्स्थानादिप्रसिद्धिरपीति, नैवं, तत्स्थानादिप्रसिद्धिं प्रति मुक्तेरव्यभिचारित्वाभावात्, अन्यथा हि पुरुषाणामपि येषां मुक्तिस्थानाधप्रसिद्धिस्तेषां तदभावप्रसङ्गः, अर्थतत्साधकप्रमाणाभावेन प्रकृतहेतोरसिद्धता, तत्रापि तत्साधकप्रमाणस्य किं प्रत्यक्षस्यानुमानस्यागमस्य वा ?, तत्र यदि प्रत्यक्षस्य तदा किं वसम्बन्धिनः सर्वसम्बन्धिनो वा ?, खसम्बन्धिनोऽपि किं बाह्यं यद्यथोदितप्रत्युपेक्षणादिरूपं कारणावैकल्यं तद्विषयस्य यदिवाऽऽन्तरं यच्चारित्रादिपरिणामात्मकं तगोचरस्य ?, न तावदाद्यस्य, स्त्रीष्वपि यथोदितप्रत्युपेक्षणादेरसूणविधानस्येक्षणात्, अथ द्वितीयस्य तदा तदभावस्याग्दृशां पुरुषेष्वपि समानत्वात्तेषामपि कारणावैकल्यस्यासिद्धिप्रसङ्गः, सर्वसम्बन्धिनस्तु प्रत्यक्षस्यासर्वविदा सत्त्वेनासत्त्वेन (वा) क्वचिन्निश्चेतुमशक्यत्वात् , तदभावेन प्रकृतहेतोरसिद्धतेत्यनुद्घोष्यमेव, अथानुमानस्य, तदप्यसत्, तदभावस्य पुरुषेष्वपि समानत्वात् , न ह्याग्दृशां स्त्रीषु पुरुषेषु वा तत्त्वतस्तदव्यभिचारि लिङ्गमस्ति येनानुमानं स्यात्, अथास्त्येव पुरुषेष्वनुमानं, तथाहि-यदुत्कर्षापकर्षाभ्यां यस्यापकर्षोत्कर्षों तस्यात्यन्तापकर्षे तदत्यन्तोत्कर्षवदृष्टं, यथाऽनपटलापगमे सवितृप्रकाशः, रागाद्युत्कर्षापकर्षाभ्यामपकर्षोत्कर्षवच्च चारित्रादि, न च रागाद्यपच
BARASAROKAR
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org