________________
उत्तराध्य. बृहद्वृत्तिः ॥६८०॥
इति तात्वं गणधराणाशासां तेभ्योऽप
यतो न तनिषेधाद्विशिष्टसामर्थ्याभावः प्रतीयते, योग्यतापेक्षो हि चित्रः शास्त्रे विशुद्धधुपदेशः, यदुक्तम्-"संवरनि- जीवाजीव जररूपो बहुप्रकारस्तपोविधिः शास्त्रे । रोगचिकित्साविधिरिव कस्यापि कथञ्चिदुपकारी ॥१॥" यच्च पुरुषानभि
विभक्ति वन्द्यत्वं हेतुरुक्तः तदपि सामान्येन गुणाधिकपुरुषापेक्षं वा?, यदि सामान्येन तदाऽसिद्धतादोषः, तीर्थकरजन-5 न्यादयो हि शक्रादिभिरपि प्रणताः किमङ्ग शेषपुरुषैः ?; गुणाधिकपुरुषापेक्षं चेद्गणधरा अपि तीर्थकृद्भिर्नाभिवन्धत इति तेषामप्यपकृष्यमाणत्वम्, अथ तीर्थशब्दस्याद्यगणधराभिधायित्वात्तीर्थप्रणामपूर्वकत्वाच्चाईद्देशनाया असिद्धमेव तदनभिवन्द्यत्वं गणधराणाम्, एवं तर्हि चातुर्वर्णसङ्घस्यापि तदभिधेयत्वात्तदन्तर्भावाच स्त्रीणामहद्भिरपि वन्द्यत्वे कथं पुरुषानभिवन्द्यत्वेन तासां तेभ्योऽपकृष्यमाणत्वम् ?, अथ स्मारणाद्यकर्तृत्वेन, एवं सति समानेऽपि रत्नत्रये शिष्याचार्ययोराचार्यस्यैव मुक्तिः स्यान्न शिष्यस्य, स्मारणाद्यकर्तृत्वेन तस्य ततोऽपकृष्यमाणत्वात् , न चैतदागमिकं, चण्डरुद्राद्याचार्यशिष्याणामागमे निःश्रेयसश्रवणात् , अथामहर्द्धिकत्वेन स्त्रीणां पुरुषम्योऽपकृष्यमाणत्वं, तथा सति प्रष्टव्योऽसि-किमाध्यात्मिकीमृद्धिमाश्रित्य बाह्यां वा?, तत्र न तावदाध्यात्मिकीमुक्तन्यायतो रत्नत्रयस्य तासां समर्थितत्वात्, नापि बाह्याम्, एवं हि महत्या तीर्थकरादिलक्षम्या गणधरादयश्चक्रधरादिलक्ष्म्याश्चेतरक्ष- ॥६८०॥ (रेऽक्ष)त्रियादयो न भाजनमिति तेषामप्यमहर्द्धिकत्वेनापकृष्यमाणत्वान्मुक्तिकारणवैकल्यप्रसङ्गः, यदपि मायादिप्रकर्षवत्त्वेनेत्युच्यते, तदप्यसत् , तस्योभयोरपि तुल्यत्त्वेन दर्शनादागमे च श्रवणात् , श्रूयते हि चरमशरीरिणामपि ।
www.jainelibrary.org
Jain Education International
For Personal & Private Use Only